SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ कविशेखर-भट्टश्रीचन्द्रशेखरनणीतं वृत्तमौक्तिकम् प्रथमः खण्डः प्रथमं गाथाप्रकरणम् [ मङ्गलाचरणम् ] युष्मान् पातु चिरन्तनं किमपि तत्सत्यं चिदेकात्मक, प्रोतं यत्र चराचरात्मकमिदं वाक्चेतसोर्यत्परम् । यस्माद् विश्वमुदेति भाति च यतो यस्मिन्पुनर्लीयते, यद्वित्तं श्रुतिशान्तदान्तमनसामानन्दकन्दं महः ।। १ ।। अमुष्मिन् मे दर्वी करकलितदुर्बोधविषमे, मतिः छन्दःशास्त्रे यदपि चरितं नास्ति विपुला । तथाप्याराध्यश्रीपितृचरणसेवा' सुमतिना, तदीयाभिर्वाग्भिविरचितपथे गम्यत इह ।। २ ।। श्रीलक्ष्मीनाथभट्टस्य पितुर्नत्वा पदाम्बुजम् । श्रीचन्द्रशेखरकविस्तनुते वृत्तमौक्तिकम् ॥ ३ ॥ श्रीमत्पिङ्गलनागोक्तच्छन्दःशास्त्रमहोदधिः । पितृप्रसादादभवन् मम गोष्पदसन्निभः ।। ४ ।। अलसाः प्राकृते केचिद् भवन्ति सुधियः क्वचित् । तत्सन्तोषाय भवतु वात्तिकं वृत्तमौक्तिकम् ।। ५ ।। यो नानाविधमात्राप्रस्तारात् सागरं प्राप्य । गरुडमवञ्चयदतुलः स हि नागः पिङ्गलो जयति ।। ६ ।। गुरुलघुस्थितिः दीर्घः संयुक्तपरः पादान्तो वा विसर्गबिन्दुयुतः । स गुरुर्वक्रो द्विकलो लघुरन्यः शुद्ध एककलः ।। ७ ।। १. ग. सेवां । २. ग. सन्निधौ ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy