________________
५.९-४०]
तथाहि
छन्दः शेखरः
मङ्गलार्थरचितं यच्छन्दस्तद्बुधैः । बहुमङ्गलमा(मि) [त्या] ख्यातं तत्राद्ययोः ॥ क्रमयोः षत्रिचकाराश्चाः पञ्चापरयोस्तु । चत्वारोऽप्यंहृयस्तु तान्ता दान्ता वास्य ॥ २६ ॥ उत्साहहेलावदनाडिलाद्यैर्यद् गीयते मङ्गलवाचि किंचित् ॥ तद्रूपकाणामभिधानपूर्वं छन्दोविदो मङ्गलमामनन्ति ॥ २७ ॥ तैरैव धवलव्याजात्पुरुषः स्तूयते यदि । तद्वदेव तानेको धवलोऽप्यभिधीयते ॥ २८ ॥
ध्रुवोऽन्ताद्योः प्रयोगोऽस्याः काव्यसन्धिध्विति ध्रुवा । षट्पदी चतुरंहिश्च द्विपदी चेति सा त्रिधा ॥ २९ ॥ दशादिकलाः । मुनिदशान्ताः । तृतीयषष्ठक्रमयोर्भवेयुः ॥ षट्पदीयं । शेषांहिषु तु । संप्ताष्टनवधा मात्राः क्रमेण ॥ ३० ॥ षट्पदजातौ । मात्रा भवन्ति । सप्त पादचतुष्टये ॥ उपजातौ स्युः । मात्रा अष्टौ । अवजातौ नव स्मृताः ॥ ३१ ॥
- उत्साहादिप्रकरणम् ॥
सप्ताद्याः कलाः । दशादिभिर्युताः । प्रत्येकमष्टधा भूत्वा ॥ षट्पदीं कुर्युः । छन्दःशेखरे । चतुर्विंशतिभेदां ध्रुवम् ॥ ३२ ॥
घत्ता अथवा छड्डुणिकाः । छन्दोविद्भिः प्रोच्यन्ते । यदि चः पद्यार्धयोः पुरः । मात्राधिको (कौ) तृतीयांही ॥ नानाभ्यूयायुधैस्तथा ॥ ३३॥
चतुःपद्यस्तन्नामानः । प्रथमद्वितीयचतुर्थषष्टे । कला कलास्तृतीयपञ्चमे च । त्रयोदशैव छडणी ॥ ३४ ॥ - षट्पदीजातिप्रकरणम् ॥
अन्तरार्धसमे सर्वसमेति त्रि (त्रि) चतुष्पदी | तुल्यौजा तुल्ययुग्मांहिस्तत्रान्तरसमा भवेत् ॥ ३५ ॥
(ओ) जे सप्त समेष्टाद्या मात्राः सप्तदशावधि | दशैव स्युः क्रमाद् भेदास्तथांहिव्यत्ययादपि ॥ ३६ ॥
विषमे सप्त । युजि चरणेऽष्टौ ॥ कला भवन्ति । चम्पककुसुमे ॥ ३७ ॥
क्रमव्यत्यये । सुमनोरमा ॥ ३८ ॥
(ओ) जे सप्त । समे चरणे नव ॥ लक्षणमिदं । किल सामुद्रके ॥ ३९ ॥ पादव्यत्यये । पङ्कजं स्यात् ॥ ४० ॥
१३१