________________
छन्दोदर्शनम
प्रेरयन् राजति इष्ठे, तथैव पुन: अन्तर्धा अन्तस्तनः सर्वान्तर्यः चेतन: आत्मा सर्वेषां प्राणभृतां देव-मनुष्य-पशु-पक्षिप्रभृतानां ज्येष्ठः अधिपतिः, सः एतादृशः मध्यमलोकाधिपतिः मरुत्वान् सन् राजतीति ॥
COMMENTARY-SUMMARY TRANSLATION He shines as lightning outside and as life and intelligence inside; he inspires the whole Universe. Further, he is the inner-most soul, the intelligence. He is the greatest of all the divine and human beings, therefore the lord of all. He is Indra, the Lord of mid-air and rules this world with Maruts.
चतुर्थी ऋक् । यो बहिर्धा विद्युता स्वरत्यन्तरिक्षे जनयन् यो विदो वाचं परां परि॥ योऽन्तर्धाऽऽत्मा विदं वदतीह वाचा
सेन्द्रो मरुत्वान् राजतीह स मध्यमः ॥ ४ ॥ पदपाठः – यः । बहिःऽधा । विद्युता । स्वरति । अन्तरिक्षे ।
जनय॑न् । यः । विदः । वाच । परां। परि॥ यः । अन्तःऽधा । आत्मा। विदै । वदति । इह । वाचा । सः । इन्द्रः । मरुत्वान् । राजति । इह । सः। मध्यमः ॥
- - He roars with thunder externally in the mid-air. He generates excellent sound everywhere in the sky. Internally, he is the soul and expresses his knowledge through Prana, the vital force. He is Indra with the Maruts, the king of this world. He is the lord of the mid-air.
अन्वयभाष्यम्। यः बहिर्धा ब्रह्माण्डे अन्तरिक्षे वहन् विद्युता वैद्युतेन तेजसा स्वरति शब्दायते, यश्च वियदि परितः विद: संविदः परां वाचं जनयन् स्वरति इति पूर्वत्र अन्वयः, अथवा आकाशे परां अखण्डां सूक्ष्मां वाचं ध्वनयन प्रतिध्वनिरूपेण उच्चरन् प्रतितिष्ठति | यः अन्तर्धा सर्वेषां अन्तः शरीरे वाचा विदं संविदं अनुवदति मुख्यप्राणमुखेन, सः मध्यमलोकाधिपतिः मरुत्वान मरुत्सखा च सन् इन्द्रः राजति विश्वेषां जगतां प्रभवतीति ॥