________________
26
छन्दोदर्शनम
दशमी ऋक् । अग्निरयं रुद्रो वाचा मध्यमा रौति स्वरन्त्यान्तरिझे यो बलीयान् || मरुतां यः पिता प्रणेता प्राणानां
तद् रुद्रियं ज्योतिर्विश्वस्य दर्शयत् ॥ १० ॥ पदपाठ :- आग्निः । अयं । रुद्रः। वाचा । मध्यमयो । रौति ।
स्वरन्त्या । अन्तरिक्षे । यः। बलीयान् ॥ मरुता । यः। पिता। प्रऽनेता । घृणानौ ।
तत् । रुद्रियै। ज्योतिः। विश्वस्य । दर्शयत् ॥ This Agni is Rudra, who roars with the sounding madhymă (Pară, Pasyanti, Madhyama, Vaikhari) Vak. He is in the mid-air and is strong. He is the father of Maruts and leader of Pråņas (vital powers). The light of Rudra illumines the universe.
अन्वयभाष्यम् । सोऽयमग्निरेव रुद्रः इति संस्तूयते, वैद्युतज्योतियोगात्, “त्वमग्ने रुद्रो असुरो महो दिवः" (रु. मं. २-१-६) इति मन्त्रवर्णात् यः खलु मध्यमे लोके अन्तरिक्षे अनवरतं स्वरन्त्या मध्यमया माध्यमिकया वैद्यत्या वाचा बलीयान् बलिष्ठो रौति शब्दायते अशनिमुखेन, " त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्या आविवेश" (ऋ. मं ४-५८-३) इति ऋङ्मन्त्रवर्णे तदनुश्रवणम् ॥
- यः खलु मरुतां पिता जनकः जनयिता पालयिता च बहिः ब्रह्माण्डे, प्राणानां च प्रणेता प्रेरयिता सर्वेषां अन्तःशरीरे, “आ ते पितमरुतां सुम्नमेतु" (ऋ. मं. २-३३-१) इति च मन्त्रवर्णात्, “प्राणाद् वायुरजायत" (ऋ. मं १०-९०-१३) इति च तदनुश्रवणम्, तत् रुद्रियं रुद्रसम्बन्धि वैद्यतं ज्योतिः विश्वस्य अस्य समग्रस्यापि जगतः दर्शयत् प्रकाशकं भवति, तस्मात् तद् वैद्यताग्निस्वरूपं तत् परञ्ज्योतिः, तथा तत्परञ्ज्योतिःस्वरूपो रुद्र एवायमग्निरिति ॥
|| इति प्रथमेऽनुवाके आग्नेयं चतुर्थं सूक्तम् ॥ COMMENTARY-SUMMARY TRANSLATION Rudra is Agni himself. cf. “Agni, you are Rudra, divine light and giver of Pranas" (Rg. II-1-6). Rudra makes violent sound in the mid-air with