________________
पदपाठः
-
छन्दोदर्शनम्
अदि॑तिः । सा । परम॒म् । विऽओम । तु॒रीय॑म् ।
I
CD-61
सत् । स॒त्यम् । गीःऽप॒दम् । ब्रह्म॑ । बृ॒हत् । पू॒र्णम् ॥
I
1
। भव॑त् । भव्यम् । च । यत्र॑ । परि॑ । इतम् ।
1
भूतम्
तत् । प॒रमम्। ज्योति॑ः । विश्व॑स्य । दर्शय॑त् ॥
481
That Aditi is the highest sky, beyond everything known. She is the Truth, and the abode of Vak, of Brahma, of the great and of the supreme existence. The past, present and future are contained in it. That is the light par excellence which illumines the entire universe.
अन्वयभाष्यम् ।
(6
"
"
66
सा अदितिरेव परमव्योमात्मिका तुरीयपदरूपा भुवनत्रयाधिष्ठानात्मकत्वात्, तत् तुरीय पदरूपत्वं च भुवनत्रयापेक्षया तस्याः परत्वात् । तथा च तदनुश्रवणम्- ' यस्मिन् विश्वानि भुवनानि तस्थुस्तिस्त्रों द्यावस्त्रेधा सस्रुरापः " (ऋ. मं. ७-१०१ - ४ ) इति ॥ गीष्पदं गिरः वाचः अधिष्ठानं तत् परोक्षं सत्यं नित्यसिद्धं अक्षरात्मकं भवति || “ ऋचो अक्षरे परमे व्योमन् ” (ऋ. मं. १-१६४-३९) इति तदनुश्रवणम् || तच्च पुनः बृहत् महद् व्यापकं च सत् परं ब्रह्म ब्रह्मात्मकम् परं वस्तु, तच्छरीरात्मकं च भवति । ब्रह्मायं वाचः परमं व्योम ” (ऋ. मं. १-९६४-३५) ब्रह्म वै वाचः परमं व्योम " (तै. ) इति च तदनुश्रवणम् || “ आकाशशरीरं ब्रह्म ” ( शी. उ. ६ - २ ) इति च औपनिषदं तत्त्वम् ॥ यत्र विश्वाधारशक्तिरूपे अदितिपदे अखण्डात्मके अधिष्ठाने भूतं इतः पूर्वतनं अतीतं, भवत् इदानीन्तनं वर्तमानं भव्यं च इतः परं भाव्यं भविष्यत्कालीनं एतत् सर्वस्वमपि परीतं व्याप्तं सत् प्रतितिष्ठति सैव अदितिर्भवतीति ॥ एतस्मिन् अर्थे भौवनविश्वकर्माषयं ऋमन्त्रदर्शनं च स्पष्टार्थकमनुश्रूयते || “ कि स्विदासीदधिष्ठानमारम्भणं कतमत् स्वित् कथाऽऽसीत् । यतो भूमिं जनयन् विश्वकर्मा विद्यामौर्णोन्महिना विश्वचक्षाः " (ऋ. मं. १०-८१-२ ) इति ॥ तस्य परोक्षसिद्धस्यापि पुनर्जिज्ञासा भवति ॥ किस्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः | मनीषिणो मनसा पृच्छतेदु तद् यदध्यतिष्ठद् भुवनानि धारयन् ' (ऋ. मं. १०-८१-४ ) इति ॥ जिज्ञासितस्य प्रपूरकं तदुत्तरानुवचनम्, ब्रह्म वनं ब्रह्म स वृक्ष भास ततो द्यावापृथिवी निष्टतक्षुः " ( तै. ) इति च यजुः ॥
""
"
66
तत् परमं तुरीयपदात्मकं विश्वस्य सर्वस्यापि जगतः दर्शयत् प्रकाशयत् परं ज्योतिः भवतीति ॥ तदेतददितेः परमतत्त्वबोधकः ऋङ्मन्त्रवर्णः गौतमर्षयः, " अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वेदेवा अदिति: पञ्च जना अदितिर्जातमदितिर्जनित्वम् " (ऋ. मं. १-८९ - १० ) इति ॥
॥ इति अष्टमेऽनुवाके पञ्चमं अदितिसूक्तं समाप्तम् ॥