________________
477
छन्दोदर्शनम् विश्वषां तद् दे॒वानां ज्योतिषां विधृति
विश्वस्यैव मूर्धा पिता भूतानां पतिः ॥ ४ ॥ पदपाठः - अदितिः । सा । परमा । द्यौः । उत्ऽतमा । स्व१ रिति स्वः ।
ज्योतिः। तत् । भूतम् । भुवनम् । सूर्यस्य । ऊर्ध्वम् ।। विश्वेषाम् । तत् । देवानाम् । ज्योतिषाम् । विऽधृतिः । विश्वस्य । एव । मूर्धा। पिता । भूतानाम् । पतिः ॥
That Aditi is the highest and the Supremne heaven indicated by the Vyāhști Svah. She is the first celestial light, and shining forever, she is even above the sun. She is the basic support of all light and all the gods. She is certainly at the head of the entire universe. She is the father and lord of all the elements.
अन्वयभाष्यम् । सा अदिति: परमा परतमा श्रेष्ठतमा उत्तमा सर्वस्मात् उच्चतमा द्यौः द्युमत्तमा दीप्ततमा स्वः प्रकाशात्मिका, अथवा “ स्वः” इति व्याहृतिः, तृतीया तद्यजुर्मन्त्रात्मिका तथा तदर्थरूपा च, तदेव स्वःपदवाच्यं ज्योति: ज्योतीरूपं भूतं प्रथमम्, ऊर्ध्वं भुवनं च भवितुमर्हति, तथा सूर्यस्य तत् अधिष्ठानरूपम् , तच्च पदं स्थानं विश्वेषां देवानां देवतात्मनां
आदित्यादीनां ज्योतिषां तेजसां ज्योतिरात्मनां च विधृतिः सन्धारका आधारशक्तिरूपा, विश्वस्य अस्य जगत: मूर्धा शिरःस्थानीया, सा द्यौरेव तस्य परमपुरुषस्य शीर्षात्मिका भवति, तच्छिरस एव दिवः आविर्भावात् शिरःस्वरूपात् ज्योतिषो वा दिवः उदयात् | "शीर्णो द्यौः समवर्तत" (ऋ. मं. १०-९०-१४ ) इति तदनुश्रवणम् । तथा स एव द्यौः सर्वषां भूतानां पिता जनक: पालकश्च भवति, तथा पतिः अधिपतिः अधिष्ठाता च स एवास्ति | " द्यौम पिता जनिता" (ऋ. मं. १-१६४-३३), "द्यौर्वः पिता पृथिवी माता" (ऋ. मं. १-१९१-६) इति च तदनुश्रवणम् ।। " जाया भूमिः पतियोम" " मिथुनं वा अतस्थतुः"॥ इति च यजुः (ते.) ||
COMMENTARY-SUMMARY TRANSLATION The famous Aditi is the best and the highest. She is the brightest. She is herself light. Likewise, she is Svah, the third Vyahrti. She is the mantra of Yajurveda and its meaning also. That is the meaning of the word Svah. She is the first element, the light, and the highest world even above the sun. She is the support of all the gods, beginning with Aditya and of all the lights. She is the head of all this universe, the head of the