________________
478
छन्दोदर्शनम्
Parama Purusha.Cf. "From the head, Dyau, sky was born" ( Rg.X-90-14). She is the generator of all the elements and their protector also. She is the lord of the high sky where she dwells. Cf. “Dyau, the sky is my father the all-generator" (Rg. I-164-33). "Dyau is our father and earth is our mother" (Rg. I-191-6), "and the earth is wife and the sky is husband," says the Yajus (Tait.).
.
पञ्चमी ऋक् । अदितिः सा पृथिवीयमवमा भूमही भूतमिदं भुवनं स्वमग्नेः॥ इयं विश्वेषां मर्त्यांना विधृति
स्तस्थुषोऽसौ जगतः सवित्री माता ॥ ५॥ पदपाठः - अदितिः । सा । पृथिवी । इयम् । अवमा । भूः।
मही। भूतम् । इदम् । भुवनम् । स्वम् । अग्नेः ॥ इयम् । विश्वेषाम् । मयानाम् । विऽधृतिः ।
तस्थुषः । असौ । जगतः । सवित्री । माता । The famous Aditi is the earth, the lower one. She is indicated by Bhuh, the first Vyahrti. She is the element of earth; this is the home of Agni. This earth is the support of all the mortal beings; indeed, this earth is the mother of most of the immobile and mobile things.
अन्वयभाष्यम् । सा परोक्षसिद्धा अदितिः इति तन्नाममात्रेण श्रुता सैव इयं अस्माकं सन्निहिता अवमा अधस्तना पृथिवी पृथुभूता सुप्रसिद्धा सर्वाश्रयीभूतत्वात्, तथा इयं भूः भूरिति यजुर्मन्त्रात्मिका प्रथमा व्याहृतिरूपा तदर्थरूपा च, मही महती पूज्या च, इदं प्रत्यक्षं भूतं अन्तिमम्, अग्नेः तेजोमयस्य स्वं निजं भुवनं अधिष्ठानम् | “ अग्निर्मूर्धा दिवः ककुत् पतिः पृथिव्या अयम्" (ऋ. मं. ८-४४-१६) इति मन्त्रवर्णात् | “ अग्निर्वे गृहपतिः सोऽस्य लोकस्य गृहपतिः" (ऐ. ब्रा.) इति च ब्राह्मणम् | इदं पृथिवी इति नामरूपात्मकं अन्त्यं भूतं भुवनरूपं च विश्वेषां मर्त्यानां क्षय-विकारादिसहितानां सर्वेषां प्राणभृतां विधृतिः आधारभूतम्, सा इयं तस्थुषः स्थावरमिति प्रसिद्धस्य अचेतनस्य भूतजातस्य तथा जगतः जगमरूपस्य सचेतनस्य जन्तुजातस्य च एवं चराचरप्राणिजातस्य स्वं पदं स्वकीयं स्थानं माता जननी धारयित्री च भवतीति ॥