________________
पदपाठः
छन्दोदर्शनम्
विश्वस्यै॒व प्रसू॑त्या॒ अभ॑व॒त् पराची
सा प्र॑थ॒मा माता प॑र॒मं व्यमादितिः ॥ १ ॥
-
रुद्रस्य॑ । या । सम्ऽवित् । विद्यत । स्वर॑न्ती । सम्ऽदृक् । प्रतीचीं'। अनु॑ । वाचा | ब्रह्मणा । आत्मन् ॥
-७
विश्व॑स्य । एव । प्रऽसू॑त्यै । अभ॑वत् । परा॑ची ।
सा । प्रथमा । माता । परमम् । विऽओम । अदितिः ॥
66
471
The power of consciousness of Rudra which flashes in the form of lightning, and his power of intelligence which turns inwards and expresses itself in the form of speech (mantras) is manifest Brahma: these go forth for the creation of the universe; that power is Aditi, the mother, the measurer, the formless sky.
अन्वयभाष्यम् ।
रुद्रस्य भगवत: विश्वप्राणसत्त्वस्य चेतनात्मनः | " कद् रुद्राय प्रचेतसे०” (ऋ. मं. १-४३-१ ) इति ऋङूमन्त्रमुखेन आश्रावितस्य तस्य या परा संवित् सज्ञानस्वरूपा, तथा विद्युता वैद्युत्या चैतन्यज्योतिरात्मिकया शक्त्या स्वरन्ती सूक्ष्मतमया व्योमतन्मात्रया स्फुरन्ती रुद्रस्य सन्दृक् दृक्छक्तिस्वरूपा प्रतीची प्रत्यक्चितिसत्त्वा आत्मन् आत्मनि स्वीये परमे चेतने वस्तुनि ब्रह्मणा प्रत्यक्षब्रह्मरूपया वाचा संविन्मात्रया अनुस्वरन्ती अव्यक्तस्वरात्मिकया अनुद्भूतव्योमात्मिका सती, विश्वस्यैव अस्य समग्रस्य जगतः प्रसूत्यै प्रसवार्थं या पराची पराङ्मुखा अभवत् बभूव । आदिसृष्टौ प्रथमतः रुद्रात्मनः सकाशात् उन्मेषरूपेण आविरास, सा परा परोक्षसिद्धा परमस्य प्रचेतनात्मनः तस्य रुद्रस्य आदिमा सन्दृगेव सर्वेषां जगदादीनां देवानां प्रथमा आदिमा माता मानवती तथा विश्वस्यापि जगतः स्वान्तः सन्धारणेन मात्री निर्मात्री प्रसवित्री च सती सैव परमव्योमात्मिका अदितिः अखण्डसत्तात्मिका विश्वाधारशक्तिस्वरूपा च भवति ॥
""
अत्रेदं किञ्चिदेव विमृश्यते दिग्दर्शनार्थं अदितेः स्वरूपतत्त्वम् | “ अदितिः सा दाक्षायणी देवमाता इति च प्रसिद्धा वेदे, दक्षस्तु आदित्यः, दक्षादभ्युदितत्वात् सा दाक्षायणी, तथा देवानां आदित्यादीनां प्रसवितृत्वात् सा देवमाता इति सम्मानितेति प्रतीयते, अस्मिन् अर्थ दाक्षायण्याः अदितेरेव ब्रह्मवादिन्याः आषयं ऋड्मन्त्रदर्शनं भवति
अदितिर्ह जनिष्ट दक्ष या दुहिता तव । तां देवा अन्वजायन्त भद्रा अमृतबन्धवः” (ऋ.मं. १०- ७२ - ५ ) इति ॥ तथा " अदितेर्दक्षो अजायत दक्षाद्वदितिः परि” (ऋ. मं. १०-७२-४ ) इति च ॥ तत्र दक्षादित्योः आदित्यादितिसञ्ज्ञयोः ज्योतिव्यमात्मकयोः