________________
472
छन्दोदर्शनम्
प्रकाश-प्रदेशस्वरूपयोः परस्परं प्रादुर्भावसत्त्वं अनुश्रूयते, तच्च याथातथ्यमपि लोके अप्रसिद्ध असम्भाव्यं विरुद्धं कल्पनातीतमिति च प्रतीयते, तदेतदेव आशक्य कृतं तन्निर्वचनं सन्निर्णयेन यास्काचार्येण, तत्र " तत् कथमुपपद्येत" इति आक्षेपवचनम्, तत्समाधानवचनं तु- " समानजन्मानौ स्यातामिति" इति, “अपि वा देवधमण इतरेतरजन्मानौ स्याताम्, , इतरेतरप्रकृती" (नि. ११-१३-४) हति च तत्र व्यापकत्वं प्रकाशकत्वं विश्वसन्धारकत्वादिकं च तयोरुभयोरपि अदिति-आदित्ययोः समानं सत्त्वम्, तस्मादेव तयोः परस्पर कार्यकारणभावः दिव्य: कार्यकारणभावः दिव्यः तथा अलौकिक एवेति तदभिप्राय: । अस्ति तादृशमेव निदर्शनान्तरमपि, “यच्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात् सम्बभूव | स मेन्द्रो मेधया स्पृणोतु " (ते. शी. उ. ४-१ ) इति ॥
अत्र छन्दोवर्षकः इन्द्रः, तथा इन्द्रप्रकाशकं छन्दः, इति वाग्-वस्तुनोः ( वाचकवाच्यार्थरूपयोः) परस्पराविर्भावरूपं तत् समानं सत्त्वं नित्यसिद्धमेवेति भावः ॥ एवमेव अग्नेः अदितिरूपत्वमनुश्रुतं सङ्गच्छते, “ त्वमग्ने अदितिदव दाशुषे” (ऋ.मं. २-१-११) " यस्मै त्वं सुद्रविणो ददाशोऽनागास्त्वमदिते सर्वताता" (ऋ. मं. १-९४-१५) इति तदनुश्रवणम् ॥ " अग्निरप्यदितिरुच्यते” (नि. ११-२३-५) इति तन्निरुक्तम् | एतस्मिन् अर्थे त्रितस्य आर्षेयं ऋङ्मन्त्रादर्शनमपि भवति || " असच्च सच्च परमे व्योमन् दक्षस्य जन्मन्नदितेरुपस्थे । अग्निह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः " (ऋ. मं. १०-५-७) इति ॥
एवं सेयमदितिः परमव्योमात्मिका, तदन्तर्हितवैद्युताग्निसत्त्वा आदित्याविर्भावकारणीभूता क्षेत्रात्मिका आधारशक्तिरूपा, तथा वैद्युताग्निरूपः रुद्रः इन्द्रात्मकः सः अदितेः प्रादुर्भावहेतुभूतः ज्योतिर्बीजसत्त्व: बीजात्मकः ज्योतिःसत्त्वः भवति, तस्मात् तयोरन्योऽन्यजन्मसत्त्वं स्वत एव नित्यसिद्धं इति ॥
COMMENTARY_SUMMARY TRANSLATION Bhagavān Rudra is the universal life-force or energy. “When shall we offer praises to Rudra, the greatest energy?" (Rg. I-43-1). That power or energy has the highest power of knowledge. That power sounds and flashes with the finest embryonic elements of the sky (Tanmatrā). She has very good power of sight. She turns inwards. In her own poised energy, she murmurs in the form of Vak indistinctly because, the sky is not yet formed. Vāk is manifest Brahma. For giving birth to the entire universe, that power turned outward and manifested herself in the opening of Rudra's eyes. That power or energy is the invisible form of the supreme energy which transcends all. She was the first sight of Rudra and mother of all the gods, from whom the universe originates. She was the first to measure within herself the whole of the universe. She is Aditi, the highest