________________
छन्दोदर्शनम्
पदपाठः नम॑ः । वः॒ः । अ॒स्तु । दे॒वीः । मातरः | मे | आपः।
1
-
विश्वस्मात् । एनसः । माम् । पुनीत । सद्यः ॥ पावमानीः । ताः । शिवाः । विश्वऽभैषजीः । अत्ऽभिः । उपऽवस॑न् । तप॑सा । प्र । पद्ये ॥
449
Salutations to you, oh my mothers in the form of so many deities. Pray purify me now from all the sins. I attain the purifying waters, which are auspicious and medicinal by abstinence from food and by restraint and austerities.
अन्वयभाष्यम् ।
हे आप ! देव्यः ! देवतात्मानः ! मे मम मातरः मातृस्थानीया: मातृवत् सम्माननीयाः सेवनीयाश्च स्थ, वः युष्मभ्यं ताभ्यः नमः अस्तु ॥ मां एनं विश्वस्मात् त्रिकरणादिकृतात् सर्वस्मात् एनसः नीचैः पतनकारणीभूतात् कल्मषात् सद्य: पुनीत पावयत मोचयत, पावमानी: पवित्रीकरणस्वभावाः विश्वभेषजी: सर्वौषधिरससत्त्वरूपाः ताः शिवाः कल्याणकारणीभूताः मङ्गलमयीः अप: अब्देवतात्मिकाः ताभिरेव अद्भिः उपवसन् अपोऽशनरूपेण तेन उपवासात्मकेन तपसा अनशनरूपेण व्रतेन प्रपद्ये तादृशपरमव्रत सिध्यर्थं तथा पापरोग-दोषादिसर्वकल्मषनिवारणार्थं तद्द्वारा आत्मनः सत्त्वशुद्धयर्थं च ताः अपः एव सर्वस्वभावेन शरणं व्रजामीति || अत्र अनशनमेव परमं तपः सर्वार्थसिद्धिकारणीभूतमिति प्रतीयते । " तप इति तपो नानशनात् परं यद्धि परं तद्दुर्धर्षं तद्दुराधर्षं तस्मात् तपसि रमन्ते " ( ना. उ. २०-२ ) इति तदनुश्रवणम् ॥ तत्रापि यदनशनरूपं तपः निर्दिष्टं तत् अपामशनेनापि सिध्यति इति गम्यते, “अपोऽश्नाति | तन्नेवाशितं नेवानशितम्” (ते.ब्रा.) इति तदनुश्रवणम् || तदेतत् स्वरूपं लक्षणमनशनस्य यत् खलु अशितमपि अनशितमिवैव भवितुमर्हति इति मन्यते, तथा च विहितमनुश्रूयते " यदशितमनशितमिव (भवति) तदश्नीयात् " ( श. बा. १ - १-२ ) इति ||
―
COMMENTARY-SUMMARY TRANSLATION
Oh water-deities, you are my mothers. You are as good as my mother, so worshipful and worthy of my service. Salutations to you. Purify me immediately from all sins committed by the three instruments of action, viz., body, speech and mind, the sins which pull down all. You are the purifiers by nature and you have the powers of all medicines, you (they) are auspicious. I attain you, water-deities, by fasting, with waters only as my food, and by tapas. I attain you for the accomplishment of my vow and for the CD-57