________________
छन्दोदर्शनम्
439
अनुश्रूयते, तथाऽपि यः इमं पञ्चगव्यकल्पमाचरेत् स: सर्वोऽपि जनः एवं मेलनं हवनादिकं च ,अनुतिष्ठेत् इति विध्यर्थोऽपि सम्पद्यते । एतेन पञ्चगव्यव्रतकल्पो व्याख्यातः इति वेदितव्यम् ॥
COMMENTARY-SUMMARY TRANSLATION The Pañcha Gavya left over after offering the oblations is to be swallowed with this mantra. Here, the first person singular form, like Juhomi and Pràśnāmi, are used to indicate that the person himself performs the sacrifice. Even then, all those who perform the 'homa’ of Pañcha Gavya have to do the mixing, offering oblations etc., as prescribed here.
दशमी ऋक् । इदं वो व्रतेन रसैः पञ्चभिर्गव्यैः सुतः ।
उपैमि तपसाऽदित्य ज्योतिर्विश्वस्य दर्शयत् ॥ १० ॥ पदपाठः - इदम् । वः । व्रतेनं । रसैः । पञ्चऽभिः । गव्यैः । सुऽप॑तः ।
उप । एमि । तप॑सा । आदित्यम् । ज्योतिः। विश्वस्य । दर्शयत् ॥
Being purified by observing Go-Vrata ( observance in connection with the cow) with the five bovine essences, I attain the light of Aditya, which illumines the whole universe.
अन्वयभाष्यम् । हे गावः! वः युष्माकं व्रतेन गोसेवारूपेण पयोव्रतेन तथा पञ्चगव्यादिरूपेण व्रतेन च नित्ययुक्तः सन्, तथा पञ्चभिः गव्यैः रसैः प्रपूतः पवित्रः अहं परिशुद्धशरीरेन्द्रियान्तःकरणात्मयुक्तः तपसे अर्हः सन्, तथा तेन तपसा शुद्धसत्त्वेन योगादिरूपेण साधनेन विश्वस्य जगत: दर्शयत् प्रकाशकं तत् आदित्यं दिव्यं परमं ज्योतिःस्वरूपं उपैमि प्राप्नोमीति ।।
अत्र यद्यपि सामान्यत: बाह्यदृष्ट्या गोस्तवनं गोसेवादिवतं पञ्चगव्यादिवतं च प्रतिपादितमिति प्रतीयते तथाऽपि सर्वदेवतात्मनः इन्द्रादित्यादिज्योति:पुरुषस्यैवेदं व्रतमित्युन्नीयते, गवां सर्वदेवताधिष्ठानरूपत्वात्, गोशब्दस्य च वाग्-इन्द्रादिज्योतिःपरत्वाञ्चेति ॥ तथा हि-" उतादः परुषे गवि" (ऋ.मं. ६-५६-३) इति गोशब्देन आदित्यस्य निर्देशः " आदित्योऽपि गौरुच्यते" ॥ इति यास्कः, तथा इन्द्रस्यापि गोस्वरूपत्वं, गवां च इन्द्रात्मत्वमनुश्रूयते ॥ " गावो भगो गाव इन्द्रो मे अच्छान् गावः सोमस्य प्रथमस्य भक्षः ॥ इमा या गावः सजनास इन्द्र इच्छामीद्धदा मनसा चिदिन्द्रम्" (ऋ. मं. ६-२८-५)