________________
440
छन्दोदर्शनम
इति इन्द्रस्य आदित्यात्मता, सूर्यस्य इन्द्रात्मता च, “यदद्य कच्च वृत्रहन् उदगा अभि सूर्य । सर्वं तदिन्द्र ते वशे" (ऋ. मं.८-९३-४) इति ||
एवमेव वाच: देव्या: आदित्यमातुः गोशब्देन निर्देश:, “गौरमीमेदनु वत्सं मिषन्तं मूर्धानं कृणोन्मातवा उ” (ऋ. मं.१-१६४-२८) इति || “अयं स शिकते येन गौरभीवृता" (ऋ. मं. १-१६४-२९) इति च ॥ एवमेव गवां रुद्रमातृत्वादिस्वरूपतत्त्वं उक्तं तत् सर्वमपि सङ्गच्छते तत्त्वदृशैव तदर्थोन्नयनेन तत्समन्वयात् ॥ तथा हि“ माता रुद्राणां दुहिता वसूनां स्वसाऽऽदित्यानाममृतस्य नाभिः || प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट" (क्र. मं. ८-१०१-१५ ) इति ॥ “वचोविदं वाचमुदीरयन्ती विश्वाभिर्धीभिरुपतिष्ठमानाम् || देवी देवेभ्य: पर्येयुषी गामा मा वृक्त मयों दभ्रचेताः" (ऋ. मं. ८-१०१-१६) इति ॥
तदेतत् गो:-वाचश्च उभयोः तत्त्वं समानरूपेण आश्रावितं भवति ॥ एवं अस्याः सर्वदेवताधिष्ठानरूपायाः गोः व्रतमपि सार्वभौमस्य सर्वान्तरात्मनः इन्द्ररूपस्य आदित्यस्यैव व्रतं भवतीति प्रतिज्ञायते, गोव्रतस्य आदित्यव्रतस्य च उद्दिष्टं फलं समानमेव अनुश्रूयते सत्त्वशुद्धिरूपं निष्पापत्वं सौमनसत्वादिकं च | तथा हि- "प्रस मित्रम” अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन | न हन्यते न जीयते त्वोतो नैनमहो अश्नोत्यन्तितो न दूरात्" (ऋ. मं. ३-५९-२) इति || “ आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम" (ऋ. मं. ३-५९-३) इति च ॥ " तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम " (ऋ. मं ३-५९-४ ) इति च ॥ अत्र अयं ऋषिः तदिदं सर्वं अर्थसत्त्वं सूक्ष्मदृशा अनुदृश्य उभयोंगोसूक्तयोः अन्तिमे मन्त्रे अनेन गोव्रतेन प्राप्यं परमं कलरूपं दिव्यं परं पदं दर्शयति ||
“ गावो मे यं सुपूतं स्रावयन्तु रसं स्वीयम् | पयोऽध्यन्तः प्रचेतयेज्ज्योतिर्विश्वस्य दर्शयत्" (छं. द. अनु. ८-१-१० ) इति ॥
___“ इदं वो व्रतेन रसैः पञ्चभिर्गव्यैः सुपूतः। उपैमि तपसाऽऽदित्यं ज्योतिर्विश्वस्य दर्शयत् ” (छं. द. अनु. ८-२-१०) इति च ॥
॥ इति अष्टमेऽनुवाके द्वितीयं गोसूक्तं समाप्तम् ॥
COMMENTARY_SUMMARY TRANSLATION Oh cows, being purified by observing the Go-Vrata, the devotional observance, the Payovrata (during which only cow's milk is drunk ) and the Pañcha Gavya Vrata, I become fit for austerities with a purified body and mind; and then by means of Yoga, I attain the light of Aditya which illumines the whole universe.