________________
410
छन्दोदर्शनम
Indeed, from lightning, Indra and the mid-air, she gushes forth and is immortal and hidden. She is Svaravati, is Indrani that is born of Indra, and she is the power of speech. Salutations to her who is Devi Sarasvati.
अन्वयभाष्यम् । या खलु इन्द्रात् मध्यमात् अन्तरिक्षात् लोकात् विद्युतः सकाशात् संस्रवन्ती च्यवमाना अधि अधिष्ठानरूपा अमृता अमृतरससत्त्वा समूळ्हा समूढा गुह्या अस्ति सन्धिरूपत्वाद् गुप्तगामिनी इति प्रसिद्धा, सन्धिस्थानायतनत्वाद् वा, तच्च द्यावा-पृथिव्योः गङ्गा-यमुनयोश्च तयो: उभयोरेव प्रत्यक्षत्वदर्शनात्, रोदस्योः सितासितयोश्च नद्योः तथा प्रसिद्धः, सा मध्यमा इन्द्राणी इन्द्रदैवत्या ऐन्द्री स्वरवती सूक्ष्मस्वरयुक्ता वाक् वागरूपा चिति: चेतनात्मिका तेजोमयवाग्रससत्त्वसम्पन्ना सरस्वती भवति, तस्यै देव्यै सरस्वत्यै सरिद्रूपायै नमः अस्तु इति । अत्र सरस्वत्याः नद्याः इन्द्रस्य वाचश्च भौतिकादितत्त्वत्रयसामरस्यमृषिः पश्यति ||
COMMENTARY-SUMMARY TRANSLATION She flows from Indra, from mid-air and lightning. She is ambrosia itself and is hidden from our sight. She is in the middle of the rivers, the Ganges and the Jamuna, and so, she is known as flowing unseen. She resides in a place where Dyau and Pệthvi meet. Dyāvāprthvi and the rivers the Ganga and the Yamună are visible as the white and the blue colours. She is at the meeting place of both and is invisible. She is the power of Indra. She is Svaravati, having a very soft voice. She has a glorious power of speech. Salutations to her, the goddess Sarasvati who is in the form of a river. Here, Sarasvati, Indra and Vak are equated with the three principles of Adhibhautika, Adhidaivika and Adhyatmika.
चतुर्थी ऋक् । नमस्तेऽस्तु गङ्गे वरुणान्यै नमस्तेऽस्तु यमुनेऽनाय्यै ॥ नमस्तेऽस्तु सरस्वतीन्द्राण्यै
नमो वोऽस्त्वापो देव्यो मातरः ॥ ४॥ पदपाठः – नमः । ते । अस्तु । गङ्गे । वरुणान्यै ।
नमः। ते । अस्तु । यमुने । अग्नाय्यै ॥ नमः । ते । अस्तु । सरस्वति । इन्द्राण्यै । नमः । वः । अस्तु । आपः । देव्यः । मातरः ॥