________________
छन्दोदर्शनम्
409 अन्वयभाष्यम् । या खलु भूम्न: व्यापकस्य भूमात्मन: यमात् यमयितुः अग्नेः भौमात् इह पृथिव्यां संस्रवति, तस्य अग्नेः सर्वभूतजातयमयितृत्वेन यमसज्ञाप्रसिद्धिरनुश्रूयते वेदे, “यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् " (ऋ. मं. १-६६-८) इति || ततः अग्नेः संस्रवन्ती तथा तेजसा प्रेरिता च सती पृथिव्याः सकाशात् पुनः पर्वतेभ्यः निझरीरूपेण सम्प्रजाता प्रादुर्भूता सा मनश्चित्तिः मानसचितिसत्त्वयुक्ता अग्नायी अग्निदेवत्या तच्छक्तिरूपा महती पूज्या भौमान्नसत्त्वा च भूमिसमृद्धान्नसत्त्वपूर्णा च भवति । हे यमुने! देवि! तस्यै ते नमः अस्तु इति, अत्र यमुनायाः जलरूपायाः अग्ने मनसश्च अधिभौतिकादितत्त्वत्रयसामरस्यमृषि: पश्यति ||
COMMENTARY-SUMMARY TRANSLATION
Agni is the controller of all. Cf. “Those who are born are controlled and those to be born are also controlled by Agni" ( Rg. I-66-8). Agni controls all and so he is known as Yama. Inspired by his light, She is born of mountains in this world. She has abundant mental energy. She is a power associated with Agni. She has the power of creating abundant food in this world. Oh! you goddess, salutations to you. Here the Rshi identifies Yamunā, Agni in the form of waters, and the mind respectively with the Adhibhūta, Adhidaiya and Adhyatma aspects of the same eternal and primal reality.
तृतीया ऋक् । या विद्युत इन्द्रादन्तरिक्षात् परि सँ नबन्ती याऽध्यमृता समूळहा ॥ इन्द्राणी स्वरवती वाञ्चितिः सा
तस्यै देव्यै सरस्वत्यै नमोऽस्तु ॥३॥ पदपाठः – या। विद्युतः । इन्द्रात् । अन्तरिक्षात् । परि।
ससवन्ती । या । अधि । अमृता । सम्ऽऊळहा ॥ इन्द्राणी । स्वरऽवती । वाक् । चितिः। सा। तस्यै । देव्यै । सरस्वत्यै । नमः । अस्तु ।।
पदपाठः
CD-52