________________
छन्दोदर्शनम
379
दशमी ऋक् । यो ज्योतिषाऽद्भिर्भूम्याऽन्नेन रेतसा तनूभृतः सञ्जजान विश्वाः प्र॒जाः॥ चित्तिभिस्ताः सुचेतनाश्चक्रे भूय
स्तपसा धीभिः पुरुषं तं प्रपद्ये ॥ १० ॥ पदपाठः – यः । ज्योतिषा । अत्ऽभिः । भूम्या । अन्नैन । रेतसा ।
तनूऽभृतः । सम् । जजान । विश्वाः । प्रजाः ॥ चित्तिऽभिः । ताः । सुऽचेतनाः । चक्रे । भूयः । तपसा । धीभिः । पुरुषम् । तम् । प्र। पद्ये ॥
He who is of the nature of spirit, created in abundance all the living beings who have bodies, by means of three elements, light, water, earth; he provided food and senses, invested them with vital energies; he energised them. I attain that Purusha by means of meditation and deep thought.
अन्वयभाष्यम् । यः पुरुषः चेतनात्मा ज्योतिषा अद्भिः भूम्या च इत्येतैः त्रिभिः भूतैः तथा तदेतभूतत्रयसत्त्वोदितेन त्रिवृता अन्नेन तत्सारभूतेन रेतसा च इत्येतैः पञ्चभिः आवश्यकैः वस्तुसत्त्वैः तनूभृतः सशरीरा: इमाः सर्वाः प्रजाः अभितः अजनयत् आभिमुख्येन प्रत्यक्षाः जनयामास, तथा ततश्च चित्तिभिः निजचेतनाशक्तिभि: ता: इमाः स्वीया: प्रजाः सुचेतनाः सञ्चेतनाः सम्भावयामास, तं तादृशं पुरुष धीभिः सचेतनाभिः त्रिवृदिताभिः त्रितत्त्वसत्वसंहिताभिः तपसा सत्त्वसंशितेन आन्तयण संयमेन प्रपद्ये अपरोक्षतः प्राप्नोमीति ||
COMMENTARY_SUMMARY TRANSLATION With the help of the three elements of light, water and earth and with the help of food which was produced by triplicating them, and with the help of the senses which are the essence of good (in all five ingredients go to make a living thing), he created all these sentient living beings who possess bodies. Then by means of his energy, he endowed all with energy.
एकादशी ऋक् । अग्निनेन्द्रेण सावित्राऽऽत्मना तेजसा
ऽद्भिरग्नैर्वाचा प्राणेन मनसा चित्त्या ॥