________________
376
छन्दोदर्शनम
सप्तमी ऋक् । यो भूतानां विधृत्यै विश्वेषां वाग्भि - भूर्भुवः स्वनि दधे त्रीणि पदानि ॥ विश्वषु यो भूतेषु पदं तुरीयं
तपसा धीभिः पुरुष तं प्र पंधे ॥७॥ पदपाठः – यः। भूतानाम् । विऽधृत्यै । विश्वेषाम् । वाभिः ।
भूः । भुवः । स्व?रिति स्वः। नि । दधे । त्रीणि । पदानि ॥ विश्व पु । यः। भूतेषु । पदम् । तुरीयम् । तप॑सा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ॥
For the dwelling and support of all beings he created with the help of his Vāk the three abodes, Bhūḥ, Bhuvaḥ and Svaḥ. He has placed in the inmost heart of all beings, the fourth foot, that is the Turiya or the spirit. I attain that Purusha by means of meditation and deep thought.
अन्वयभाष्यम् । य: पुरुषः भूतानां विश्वषां अचेतनानां तथा सचेतनानां च स्थावराणां जङ्गमानां च प्राणिजातानां विधृत्य सन्धारणार्थं वाग्भिः स्वकीयवाक्छक्तिभिः विश्ववाचकाभिः “भूः भुवः स्वः” इति त्रीणि पदानि निदधे कल्पयामास, तथा यः विश्वेषु भूतेषु अन्तः स्वं तुरीयं चैतन्यमयं पदं स्थापयामास, तं परमं पुरुषं तपसा तदनुरूपेण सयमेन धीभिः धीयोगेन प्राप्नोमीति || अत्र “पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि" (ऋ. म. १०.९०-३) इत्यनेन सः चतुष्पात् पुरुषः स्तूयते, तानि चत्त्वारि पदानि तस्य अन्यत्रापि श्रूयन्ते, “ इदं विष्णुर्विचक्रमे त्रेधा नि दधे पदम्" (ऋ. मं. १-२२-१८) इति ॥ अत्र त्रयाणां पदानां निर्देश., तद् भुवनत्रयमेव पदत्रयमिति, “तद् विष्णोः परमं पदं सदा पश्यन्ति सूग्य: " (ऋ. मं. १ २२-२०) इति च ॥ तत् परमं पदमेव तुरीयं पदमिति सम्पद्यते, वाग्भिः सह स्थापितत्वात् वाचो देव्या अपि तानि चत्वारि पदानि समानान्येव भवन्ति ॥ "चत्वारि वाक् परिमिता पदानि" (ऋ. मं. १-१६४-४५) इति तदनुश्रवणं, एतेन तयोः वाक्-पुरुषयोरेकरूपता अवगम्यते इति ॥
COMMENTARY-SUMMARY TRANSLATION To hold and support all the beings, the inert and the living ones, the immobile, and the mobile, he created with his powers of speech all the three