________________
366
छन्दोदर्शनम
अन्वयभाष्यम् । हे भगवन् ! पुरुष! ते तव तत् पारमैश्वर्यादिपूर्ण परीतं सर्वव्यापकं विश्वरूपं सत्यानन्तत्वादिगुणविशिष्टं आत्मनि अन्त: मह्यं प्रतिदर्शय अपरोक्षत: प्रतिबोधय साक्षात् प्रकाशय, अहं दर्शतं तत्-दर्शनीयं परमं तुरीयं पदं पश्यामि साक्षात् करोमि, तदेव विश्वस्य प्रपञ्चस्य परमार्थस्य च अमृतत्वस्य दर्शयत् प्रकाशकं ज्योतिः इति | तत्परञ्ज्योतिःस्वरूप एव सः परमः पुरुषः इति ॥ अस्मिन् अर्थे प्रसिद्धः ऋङ्मन्त्रवर्णः नारायणार्षयः"पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम् | उतामृतत्वस्येशानो यदन्ननाति रोहति" (ऋ.मं. १०-९०-२) इति ॥ अत्र प्रत्यक्ष-परोक्षापरोक्षतत्त्वसिद्धानां अचेतन-प्रचेतन-सचेतनस्वरूपाणां जगद्-ईश-जीवात्मनां सामरस्येनैव तत्साक्षात्कार: याथार्थ्यन पूर्णो भवितुमर्हति, न तु पुन: एतेषां पृथक् पृथग् ज्ञाने सन्दर्शने पूर्णतामुपैति, तत्तादृशं ज्ञानं एकदेशविषयकं अपूर्ण न्यूनमेव भवतीति सम्पद्यते । तस्मादत्र सामरस्येनैव तत् पूर्णं तत्त्वविज्ञानमृषि: पश्यतीति ॥
.... ॥ इति षष्ठेऽनुवाके तृतीयं पुरुषसूक्तम् समाप्तम् ॥
COMMENTARYSUMMARY TRANSLATION Oh! Bhagavan, oh ! Purusha, show me directly your Omnifariousness full of excellence, majesty etc. which is all-pervasive. Your Omnifariousness is full of truth, infinitude etc. May I see that superior poise of yours, the fourth one (turiya ) worthy of being seen. It is that which illumines the whole universe.
Thus ends the Third hymn in the Sixth Section.