________________
छन्दोदर्शनम्
367
अथ चतुर्थ पुरुषसूक्तम् ।
अनुवाकः ६ । सूक्तम् ४। ऋचः १-१६ । पुरुषोऽसौ प्रत्नतमः षोळश, दैवरातो वैश्वामित्रः, पुरुषः, जगती । Now this Purusha Sukta, Fourth in the Sixth Anuvaka
Section VI, Hymn 4, Riks 1-16 - PURUSHA This hymn beginning with Purusho sau pratnatamaḥ' contains sixteen Rks. Daivarāta Vaiśvāmitra is the seer, Purusha is the god and the metre is Jagati.
अथ प्रथमा ऋक् । पुरुषोऽसौ प्रत्नतमो विश्वतस्पतिः परः परस्मात् तम॑स॒स्परि ज्योतिः ॥ विश्वस्यैव द्योतयिताऽऽत्मा प्रत्यङ्
तपसा धीभिः पुरुषं तं प्रपद्ये ॥ १ ॥ पदपाठः – पुरुषः। असौ । प्रत्नऽतमः । विश्वतः । पतिः।
परः । परस्मात् । तमसः। परि' । ज्योतिः॥ विश्वस्य । एव । द्योतयंता । आत्मा । प्रत्यङ् ।
तप॑सा । धीभिः। पुरुषम् । तम् । प्र। पद्ये ॥ This Purusha is the most ancient one. He is the overlord of the universe. He is the highest among the supreme ones. He is the bright light beyond all darkness. He is certainly Ātma, the very indwelling soul who illumines the whole of the universe. I attain him by means of meditation and concentration of intellectual powers.
.. अन्वयभाष्यम्। असौ विप्रकृष्टः पुरुषः विश्वतः अस्मात् जगतः पूर्वः प्रत्नतमः प्राचीनतमः अनादिसिद्धः पति: ईशानः विश्वस्य अध्यक्ष: परस्मात् दिव्यात् प्रकाशकात् तेजोमयात् सर्वस्मादपि वस्तुनः अधिदैवतात् परः श्रेष्ठतमः परोक्षसिद्धः अस्ति, तथा तमस: अन्धकारमयात् अज्ञानात् अभावात् विकार-विनाशादि भावात् अचेतनाच्च परि उपरि विश्वातीतं ज्योतिः परज्योति:स्वरूपः इति भावः, तथा विश्वस्यैव जगतः अस्य द्योतयिता प्रकाशयिता परम: देवतात्मस्वरूपः सर्वान्तरः प्रत्यङ् आत्मा केवलं चेतनः ज्ञान-चैतन्य-ज्योतिस्स्वरूपः अस्ति, तादृशं तमिम पुरुषं तपसा आन्तर्येण विमर्शन केवलेन धीभिः तादृशतपस्संशिताभि: विशुद्धसत्त्वाभिः प्रपद्ये आत्मन्येव अपरोक्षतः प्राप्नोमीति ॥