________________
348
छन्दोदर्शनम
मन्त्रार्थन समानो भवति, अथवा "शीर्षं शरीरं तदुत्तमानात्वात्, तेन विश्वशरीर: " इत्यर्थोऽपि सम्पद्यते । शिरसि पतिते शरीरं पतितं इत्युच्यते, तथा शरीरे पतिते शिरः पतितमिति वदन्ति, विश्वव्याप्तिरेव तस्य विश्वशिरस्त्वं विश्वशरीरत्वं च बोधयतीति, य: भूमसत्त्वः विश्वविभूतिसत्त्वपूर्णः भूमात्मस्वरूपः, अत एव महीयान् सर्वेभ्योऽपि महत्तमः पूजनीयेषु श्रेष्ठतम , यश्च विश्वचक्षुः सर्वदकसत्त्वपूर्णः विश्वसाक्षी जगच्चक्षुरिति यावत् ॥ विश्वाध्यक्षः इति च तदर्थः सम्पद्यते ॥ तथा यः पुरुषः प्रतिसन्डक् प्रत्यङ् सन्द्रष्टा स्वस्वरूपसन्दर्शी, अत एव उत्तमः संवभ्योऽपि द्रष्दृभ्यः श्रेष्ठ: द्रष्दृतमो भवति, अथ वा उत्तमः उत्तमलोकाधिपतिः आदित्यान्तर्यामी पुरुषः विश्वचक्षुः सुसन्दग् भवति, स एवायं प्रत्यक् सत्त्वेनोदितः सर्वेषां अन्तरात्मा प्रतिसन्दग् इति अनुश्रूयते । तथा च ऋङ्मन्त्रवर्णो भवति"सुसन्दृशं त्वा वयं प्रति पश्येम सूर्य | विपश्येम नृचक्षसः।। (ऋ.मं. १०-१५८-५) इति ॥ य: विश्वपात् सर्वपादसत्त्वः सर्वत्र सर्वदा गमनादिशक्तियुक्तः अतति सातत्येन गच्छति, अथवा विश्वमेव यस्य पादः अंशरूपः विन्यासरूपश्च भवितुमर्हति, “पादोऽस्य विश्वा भूतानि" (ऋ. मं १०-९०-३) इति तदनुश्रवणम् ॥ गीतास्मृति: इदमेव अनुवदति, "विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" (भ. गी.) इति ॥
यश्च प्रचेतनः केवलं प्रकृष्टचेतनासत्त्वपूणः अस्ति, तं तादृशं परमं पुरुषं धीभिः तदनुरूपाभिः व्यापकसत्त्वाभि: तपसा तद्योगानुचरितेन अन्तईक्सत्त्वेन विमर्शेन प्रपद्ये अपरोक्षत: प्राप्नोमीति | अत्रायं विशेषः-तस्य पुरुषस्य विश्वशीर्षत्वादिविभूतितत्त्वावबोधे ऋङ्मन्त्रवर्ण: भवति–“विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् "(ऋ.म १०-८१-३) इति | " सहस्रशीर्षा पुरुषः सहस्राक्षःसहस्रपात्” (ऋ. मं १०-९०-१) इति च । तत्र सहस्रशब्दस्य "सहस्रशः सहस्रधा" इति बहुधाभावेन तदनुश्रवणात् तथा असङ्ख्यातत्त्वेन अनन्तत्वाद्यर्थेन विश्वपर्यायत्वाभ्युपगमाच्च विश्वार्थत्वमङ्गीक्रियते, “सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम " ( यजु. सं.) " सहस्रधा महिमानः सहस्रम्” (ऋ.म.१०-११४-८) " असङ्ख्याता सहस्राणि ये रुद्रा अधि भूम्याम् ” (शु. य. सं.) इत्यादीनि तादर्थ्यमेवोपवर्णयन्ति || अस्मिन्नर्थ औपनिषदं ब्राह्मणवचनमपि भवति- "युक्ता ह्यस्य हरयः शता दशेति अयं वै हरयः अयं चै दश च शतानि च सहस्राणि बहूनि च अनन्तानि च० । तदेतद् ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् अयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्” (बृ. उ. २-५-१९) इति || तथा औपनिषदमार्च दर्शनमपिविद्यते - तदेतहचाऽभ्युक्तम् - “विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् | सहस्ररश्मिः शतधा वर्तमान: प्राणः प्रजानामुदयत्येष सूर्य: "(प्र. उ. १-८) इति ॥
" सर्वत: पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् |
सर्वतः श्रुतिमलोके सर्वमावृत्य तिष्ठति ” (गी.) इति च स्मृतिः ॥ तदेतद् व्यतिरेकार्थतत्त्वेऽपि समानमेव,