SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ 346 छन्दोदर्शनम् पञ्चमी ऋक् । अरूपः सन् विश्वरूपो योऽभ्युदगाद्अतनूर्यो विश्वतनूश्चितीपतिः ॥ अमुखो यो विश्वथा मुखेनापत स्तपसा धीभिः पुरुषं तं प्रपद्ये ॥ ५ ॥ पदपाठः - अरूंपः । सन् । विश्वऽरूपः । यः । अभि । उत् । अगात् । अतनूः । यः । विश्वऽतनूः । चितिऽपतिः॥ अमुखः । यः । विश्वऽथा । मुखेन । आऽप॒तः । तप॑सा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ॥ Though he is himself without any form, the Purusha manifested himself in multimillion forms. Bodiless himself, he manifested himself with the universe itself as his body and as the lord of all living beings. He has no face as such but he pervades all with the universe itself as his face. I attain that Purusha by means of meditation and concentration of my intellectual powers. अन्वयभाष्यम्। य' परमः पुरुषः स्वयं अरूप: रूप-रेखा आकारादिविशेषरहितः, सृष्टेः आदित: सन् केवलं सन्मात्र: तथाऽपि व्याप्त्या विश्वरूप: विश्वविभूतियोगपूर्ण एव सन् अभित: आभिमुख्येन प्रत्यक्ष उदगात उढियाय, इति अनुश्रूयते, लोके सामान्यतः वेदे तु विशेषतः तत्प्रसिद्धिरस्तीति ॥ य: अतनूः स्वयं अशरीरः. तथाऽपि विश्वान्वयेन सः विश्वतनूः विश्वशरीरः तद्विभूतियोगसत्त्वेन सम्पन्नः, चितिपतिः सर्वेषां सचेतनवस्तूनां चेतनानामपि अधिपतिः, चेतनाध्यक्षो भवतीति यावत् ॥ अमुखः स्वयं मुखादिभिः अवयवैः विरहितः, तथाऽपि विश्वथा-विश्वतोमुखेन उदितः सर्वत्र व्याप्तः पूर्णसत्त्वेन निजेन आपृत: समन्तात् पूर्णः सन् बभौ ॥ अस्मिन् अर्थे औपनिषदो यजुर्मन्त्रवर्णः प्रसिद्धः - " वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम्" (ना. उ. १०-४) इति ॥ तं तादृशं परमं पुरुषं तपसा आन्तयण विमर्शेन बाह्येन संयमेन च धीभिः प्रत्यङ्मुखाभिः सवृत्तिकाभि: प्राप्नोमीति || एवं विश्वसमन्वयेन तद्वयतिरेकेण च इति लोकवैलक्षण्येन सत्त्वेन प्रतिपादित:तथा विद्यमानोऽपि सः स्वस्वरूपात् न प्रच्यवते इति तदेतदेव तस्य विशिष्टं सत्त्वं तदनन्यसाधारणमिति वैदिकं दिव्यं परमं सिद्धान्ततत्त्वम् ||
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy