________________
छन्दोदर्शनम
345
पदपाठः - यः । वा । विश्वम् । एतत् । रूपम् । अति । रिक्तः ।
यः । परस्मात् । सन् । अपात् । पुरुषः । परः ॥ विश्वभिः । यः। पुरुषैः । न । प्रति । पद्यते । तप॑सा । धाभिः । पुरुषम् । तम् । प्र । पद्ये ॥
He, the Purusha, indeed transcends this universe. He is superior to all divinities. He is the perfect Purusha, without any divisions. He is not attainable by any person. I attain that Purusha by meditation and by the reasoning power.
अन्वयभाष्यम्। यः पुरुषः एवंविधेन विश्वसमन्वयेन विश्वरूपोऽपि एतत् विश्वं रूपं सरूपं च समस्तं जगत् वस्तुजातं अति रिक्तः अतीतः एतस्मात् सर्वस्मात् अतिरिक्तः यश्च परस्मात् परतरात् दिव्यवस्तुनः देवतात्मनः अधिदैवतसत्त्वयुक्तादपि पर: परतम: श्रेष्ठतमः भवति, तथा य: अपात् अंश-पादरूपादिविशेषरहित: पूरुष: केवलं चेतनात्मकः, यश्च विश्वेभिः पूरुषैः विश्वे: देवमानवप्रभृतिभिः बाह्यदृष्टय। न प्रति पद्यते न ज्ञायते नापि प्राप्यते तस्य प्रत्यगात्मस्वरूपत्वात् परोक्षत्वाचेति, तं तादृशं परमं पुरुषं धीभिः अन्तरात्मसत्त्वाभिः तथा प्रत्यङ्मुखाभिः तपसा आन्तर्येण केवलेन निर्विषयात्मकेन विमर्शन अन्तनिष्ठारूपेण प्रपद्ये तादृशेन अनुभावेन स्वमेवान्तर्यामिणं प्राप्नोमीति || तदिदं व्यतिरेकेण विशेषादिरहितस्य तस्य तद्भावेनैव प्रतिपत्तिः भवितुं अर्हतीति युज्यते, तदनुरूपमेव तपः साधनं अध्यात्मतत्त्वसिद्धं तथा साध्यं च अन्तनिष्ठात्मकमुपदिश्यते ॥
COMMENTARY-SUMMARY TRANSLATION
That Purusha though omnifarious and one with all things, still transcends this manifest universe, this whole world He is the presiding deity over all the superior celestial deities and at the same time he transcends them. He is indivisible and without any parts He is Purusha, the purest form of energy. None of the beings, nor any of the mortals or immortals can get at him. They cannot even know him, because he is deep within their hearts. I attain that supreme Purusha, by means of my concentrated intellect turned inward and by pure meditation without any particular object or desire. I get at him, who is the guide within (Antaryāmi ) by such an exercise of mental powers. By contrast, he who is beyond all desires and attributes can be attained by meditating along that line only, that is, by unmotivated concentration on the supreme Purusha. CD-44