________________
छन्दोदर्शनम
341
अथ तृतीयं पुरुषसूक्तम् ।
अनुवाकः ६ । सूक्तम् ३ | ऋचः १-१६ । पुरुषः सन् अमृत आत्मा षोळश, दैवरातो वैश्वामित्रः, पुरुषः, जगती ।
Now this Purusha Sukta, Third in the Sixth Anuvaka
Section VI, Hymn 3, Riks 1-16- PURUSHA This hymn beginning with 'Purushaḥ san Amsta Atmå' contains sixteen Rks. Daivarata Vaišvāmitra is the seer, Purusha is the god and the metre is Jagati.
___ अथ प्रथमा ऋक् । पुरुषः सन् अमृत आत्मा प्रचेतनो यो विश्वथा राजते भूतिभिरेकः ॥ यो वा स्वराट् सम्राडू विराड् विभुः प्रभु
स्तपसा धीभिः पुरुषं तं प्रपद्ये ॥ १ ॥ पदपाठः – पुरुषः । सन् । अमृतः । आत्मा । प्रऽचेतनः ।
यः। विश्वऽथा । राजते । भूतिऽभिः । एकः ॥ यः । वा । स्वऽराट् । सम्राट् । विराट् । विऽभुः । प्रऽभुः । तप॑सा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ॥
Being the Purusha, he is the immortal Atmā and the mighty conscious energy. He is all alone and shines everywhere in all forms, full of glory. He shines by himself. He is the supreme lord and is all.pervading. I attain him by means of meditation and by the reasoning process.
अन्वयभाष्यम्। यः स्वयं पुरुष: पुरुषसत्त्वः विश्वमूलबीजात्मकः अमृतः क्षय-विकारादिरहितः सन् सत्स्वरूपः नित्यसिद्धः आत्मा व्यापकः प्रचेतनः चैतन्यैकसत्तया विद्यमानः ज्ञानात्मकः अनादिसिद्धः स्वयं प्रज्ञाता इति भावः, यः एकः स्वयं एक एव सन् विश्वथा भूतिभिः वैश्वरूपेण वितताभिः शक्तिभि: विभूतिभिश्च राजते देदीप्यते, यश्च स्वराट् स्वयम्प्रकाशः सम्राट् सार्वभौमः विराट विश्वरूप: विभुः व्यापकः प्रभुः अधिपति: तं तादृशं यथोक्तलक्षणं परमं पुरुषं धीभिः तत्प्रेरितै: धीन्द्रियैः धियां योगेन च तपसा अन्तर्विमर्शन प्रपद्ये अपरोक्षतः प्राप्नोमि साक्षात्करोमीति भावः ||