________________
342
छन्दोदर्शनम
COMMENTARY-SUMMARY TRANSLATION He is himself the Purusha, the very seed which is the original cause of the universe. He is immortal, he does not change the least due to either waste or transformation. He is the very spirit of existence and is eternally existent. He is Atma, the pervader and conscious energy. He is all alone as conscious energy. Being omnifarious, he shines with powers which can pervade all kinds of forms. He is self-luminous. He is an emperor. He is omnifarious. He is a pervader. He is the lord. I attain this Purusha whom I have described by meditation and my reasoning faculty. I realise him within myself.
द्वितीया ऋक् । पुरुषो यो दिव्यो ज्योतिरात्मा परस्तपसाऽऽत्मनि द्योततेऽन्तरजस्रम् ॥ यो वा प्रत्यङ् चित्ती सस्ति पुरुष्वधि
तपसा धीभिः पुरुषं तं प्रपद्ये ॥ २ ॥ पदपाठः- पुरुषः । यः । दिव्यः । ज्योतिःऽआत्मा । परः ।
तप॑सा । आत्मनि । द्योतते । अन्तरिति । अज॑स्रम् ।। यः । वा । प्रत्यङ् । चिनी । सस्ति । पुरुषु । अधि ।
तप॑सा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ।। The Purusha is divine light, the light itself and the Soul-supreme. He shines constantly within himself and by himself by means of meditation. He resides within all as the inner-Soul full of the power of consciousness. I attain him with meditation and by thinking and reasoning.
अन्वयभाष्यम् । यः पुरुषः दिव्यः देवतास्वरूप अधिदेवततत्त्वसिद्धः ज्योति: चैतन्यज्योतिःस्वरूप: आत्मा आत्मवस्तुरूपः अथवा ज्योतिरात्मा ज्योति शरीर:, पर: सर्वस्मात प्रकृष्टतरः परोक्षसत्त्वसिद्धः, आत्मनि स्वस्मिन्नेवान्त: तपसा प्रत्यङ्मुखेन निर्विषयात्मकेन विमर्शसत्त्वेन अजस्रं नित्यं अविच्छिन्नधारया द्योतते स्वयं प्रकाशते अनन्यसत्तया राजते इति यावत् | यश्च स्त्रयं एक एव सन् एकरूप: एकसत्त्वश्च प्रत्यङ् प्रत्यगात्मम्वरूपः चिती चित्या चेतना कशक्त्या निजया पुरुषु बहुषु सस्ति स्वपिति सीदति, तथा अधिष्ठित: सन् अध्यात्मसत्त्वेन सर्वाधिष्ठानात्मको भवतीति तदर्थः, अत एव सः पुरुषः इति उपदिश्यते, प्रतिज्ञायते चेति ॥