________________
छन्दोदर्शनम्
इति यद् विशेषयति तद् ऋषिर्तापयति- तस्य सर्वान्तरात्मनः तद् दर्शनं तु-स एव सर्वस्यापि द्रष्टा तथा दर्शयिता च इति तत्त्वतः द्रष्टुत्वेन दर्शयितृत्वेनैव भवितुमर्हति, न तु दृश्यतयेति ॥ अत्र किञ्चिदस्ति रहस्यम् - वस्तुतत्त्वविशिष्टम्, तंदपि वैदिक-छन्दःस्वरप्रक्रियामर्यादया समाविष्टम् || अस्मिन् मन्त्रे “तुरीयं पदं पश्यामि" इत्यन्वये “तुरीयं " इति शब्द: नपुंसकः द्वितीयैकवचनान्तो भवति, तदा " तुरीयम्” इति स्वरितान्तः सम्पद्यते, यथा प्रसिद्धे ऋङ्मन्त्रे प्रसिद्धम् “ तुरीयं वाचो मनुष्या वदन्ति” (ऋ. मं. १ - १६४ - ४५) इत्यत्र श्रूयते स्वरः ॥ “ तुरीयं स्विज्जनयद् विश्वजन्य:" इति च (ऋ. मं. १० - ६७ - १ ) स्पटं तत्स्वरानुश्रावणम् || . अत्र तु “ तुरीयं ” इति उदात्तान्तं पदं विद्यते, एतत् तु सम्बुध्यन्तं पदं गम्यते एतेन स्वरभेदविशेषेण ॥ यथा प्रसिद्धे ऋङ्मन्त्रे प्रतिश्रयते, " तुरीयादित्य हवनं त इन्द्रियमातस्थावमृतं दिवि" इति ॥ (ऋ.८५२ - ७) तत्र हे तुरीप आदित्य इति सम्बोधनार्थकं तद् वचनम् । तद्वदेव अत्रापि “हे तुरीयपदात्मक सवितः” इत्यन्वयेन तव दर्शतं दर्शनीयं तथा विश्वस्य दर्शयत् प्रकाशकं च सत् तत् परमं पदं ज्योतिः पश्यामि इत्यर्थो भवितुमर्हति || सोऽयमेवार्थः
औपनिषदेन यजुर्मन्त्रान्तरेण समानतत्वको भवति, तथा हि “ गायत्र्यस्येकपदी द्विपर्दा त्रिपदी चतुष्पदी अपदसि नहि पद्यसे नमस्ते तुरीयाय दर्शताय पदाय परोरजसे, असावदो मा प्रापदहमदः प्रापम् " इति || (बृ. उ. ५- १४ -७ ) तदनुश्रवणम् ॥ __तत्र असौ सवितैव तुरीयपदस्वरूपः परोरजाः इत्यर्थः, तस्य एतदेव निर्वचनमपि तत्रैव एवमनुश्रयते,– “अथास्याः (गायत्र्याः ) एतदेव तुरीयं दर्शतं पदं परोरजाः य एष तपति, यद् वै चतुर्थं तत् तुरीयं दर्शतं पदमिति, ददृश एव ह्येव परोरजाः इति सर्वमुह्येवैष रजः उपर्युपरि तपति, एवं हैव श्रिया यशसा तपति योऽस्या: एतदेव पदं वेद" इति (बृ. उ. ५-१४ - ३.) || एतेन तस्य तुरीयपदस्य तथा तत्तुरीयपदात्मनः सवितुः दर्शनीयत्वम्, तथा सर्वेभ्यो लोकेभ्यः परतमत्वं च सिध्यति ॥ एतदेव तस्य उपव्याख्यानं भवति ॥ ३ ॥
॥ इति प्रथमेऽनुवाके प्रथमं सूक्तम् सम्पूर्णम् ॥ COMMENTARY-SUMMARY TRANSLATION Savitah: He is responsible for the birth (Prasava ) and inspiration (prerană ) of all the living beings and so, he is Savits and therefore he is Paramatma. Your poise (of consciousness) which is the inner-most, ought to be seen. It is immediate though invisible and beyond all. It is the poise (turiya ) which is the highest object for realisation and the highest position which one should attain. That fourth poise is the light that illumines all and everything in this world. It is the Light Supreme. This fourth poise is referred to in the Brhadaranyaka Upanishad, cf. “Salutation to thy fourth poise which ought to be seen" ( Br. Up. 5-14-7). And darsata is darsaniya according to Yaska. Just as the eye sees in the sky the Light that gives the