________________
छन्दोदर्शनम
Visvāni-Bhūtāni: All the visible things in the world, both mobile and immobile.
Prachetayati: Makes aware, inspires with three forces-Samvit, Kriya and Ichchhà ( these are aspects of knowledge ). He makes all the living beings active like himself (Atmasat-karana) just as fire heats an iron-ball to red heat. He is an activiser of all because he is the indweller of all.
तृतीया ऋक् । तत् ते सवितस्तुरीयं पदं पश्यामि वर्शतम् | ज्योतिर्विश्वस्य दर्शयत्
१-१-३॥ पदपाठः- तत् । ते । सवितः । तुरीयं । पदं । पश्यामि । दर्शतम् ॥
ज्योतिः। विश्वस्य । दर्शयत् ।।
I see the fourth stage or poise of Thine which is worth seeing. Oh! Savita that is the light illumining all and everything. (1-1-3).
अन्वयभाष्यम् । हे सवितः! प्रसवितः, सर्वेषां भूतानां प्राणिनां च प्रसव-चेतन-प्रेरणादि-हेतुभूत परमात्मन् , तुरीयं तुरीयपदात्मकं, ते तव दर्शतम् दर्शनीयं सर्वान्तरात्मकं, तत् परोक्षसिद्धं परमं सर्वस्मात् परतया प्रतिष्ठितं, तुरीयं चतुथ पदम् परमं वस्तुभूतम्, परंधामरूपं च, पश्यामि साक्षात्करोमि तच्च तुरीयं पदं विश्वस्य सर्वस्यापि दृश्यमानस्य अस्य जगतः, दर्शयत् प्रकाशकम, ज्योति: सर्वावभासकं, परञ्ज्योतिःस्वरूपमिति पश्यामीत्यन्वयः ॥ तत् स्वयं परञ्ज्योतिरात्मैवायमिति तदर्थः ॥ “नमस्ते तुरीयाय दर्शताय पदाय" इति (बृ. उ. ५-१४-७) श्रुतस्य तस्य तुरीयपदस्य दर्शनीयत्वेन निर्देशः प्रसिद्धः ॥ तस्य च दर्शनीयार्थत्वं दर्शत इति पदस्य ऋमन्त्रवर्णोपदिष्टम् , “ वायवायाहि दर्शत " (ऋ. मं.१-२-१) इत्यत्र “दर्शत दर्शनीय" (नि.१०-२-१) इति यास्कनिरुक्तवचनात् दशनीयत्त्वमिति सपद्यते, " दर्शनार्ह " इति तदर्थः "यो विश्वत: प्रत्यङ् असि दर्शत:" (ऋ. मं. १-१४४७) "बळित्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतोऽजनि ॥ (ऋ. मं. ११४१-१) इति च तदनुश्रवणम् ||
"तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्” (ऋ. मं. १-२२२१) इति मन्त्रवणे स्पष्ट तदनुश्रवणम् ॥ एवमिह यानि गायत्र्याः त्रीणि पदानि सवितुरेव तानि भवन्ति, यानि सवितु: त्रीणि पदानि गायत्र्याः वाचो देव्या: तानि भवन्ति, तानि च उच्चारणीयानि, सर्वान्तर एवात्मा तुरीयं पदम् , तच्चदर्शनीयमेव नोच्चारणीयम्, परञ्ज्योति:स्वरूपत्वात् इति ॥ अत्र आदौ “दर्शतम्" इति दर्शितमेव तत् तुरीयं पदं “दर्शयत्-ज्योतिः"