________________
छन्दोदर्शनम
द्वितीया ऋक् । अयं विश्वानि भूतानि प्र चैतयति चेतसा | तिसूभी रोचनाभिः
- ॥ १-१-२॥ पदपाठः- अयं । विश्वानि । भूतानि । प्र। चेतयति । चेतसा ॥
तिमऽभिः । रोचनाभिः । This Mitra activises all living beings by His intelligence and (His) three rays of light. (1-1-2)
अन्वयभाष्यम् । अयम् योऽसौ पूर्वस्मिन् प्रथमे मन्त्रे श्रुतः यथोक्तलक्षण: सोऽयं अन्तरात्मा सर्वेषां भूतानां प्राणिनां च अन्तर्हृदये प्रत्यगात्मरूपेण अन्तर्हितः सन्, चेतसा चेतनेन चेतयति, अत्र “चिती सज्ञाने” इति (भ्वा. प. र.) धातोः तवर्गीयान्तस्य व्युत्पत्तेः चेत:शब्दस्य ज्ञानरूपचेतनार्थकत्वम्, अथवा चेतसा वाचा प्राणेन मनसा च सह त्रिभि: तेजोऽबन्नात्मकः भूतैः त्रिवृत्कृतेन करणत्रयात्मकेन अन्तःकरणेन, तथा तिसृभिः अग्नीन्द्रादित्यात्मिकाभि: वाक्-प्राण-मनोरूपाभिः, रोचनाभि: ज्योतिर्मयीभि: चित्तिभि: त्रिशक्तिरूपाभिः वागाद्यधिष्ठिताभिः संवित्क्रियेच्छाभिः, विश्वानि इमानि सर्वाणि दृश्यमानानि, भूतानि भौतिकानि अचेतनानि प्रत्यक्षसिद्धानि भूतजातानि प्रचेतयति सविदिच्छाक्रियात्मकचेतनाकलाभिः प्रेरयति स्वकीयान्येव सम्भावयति, आत्मसात्करणेन तानि सचेतनानि करोतीति यावत्, अग्निरय:पिण्डमिवेति भावः ॥ तस्यास्य सर्वान्तर्यामितया सर्वचेतयितृत्वमपि स्वत: सिद्धमेवेति ॥
COMMENTARY-SUMMARY TRANSLATION
Ayam: In the last mantra, Mitra was described with his characteristics as the Atma, the innermost soul, because he dwells in the hearts of all the beings, as Pratyagatma-concealed within. Chetasa, that is by his intelligence (derived from the root chit to know). This root chit denotes knowledge or activity in the form of knowledge; or the word chetaså may denote Vak,
Prana and Manas-the result of triple evolution (Tri-vrt-karana) in the form of Tejas, Apah and Anna-the elements of fire, water and earth (the earth is equated to food here ). These are the three components which form the Antah-karana (generally four ).
Tisrbhih Rochanabhih: The three Lights-Agni, Indra and Aditya in the universe and Vak, Prana, and Manas in the individual, are the forms of knowledge, viz., the three forces of Jiana ( Samvit), Kriya and Ichchha.