________________
320
छन्दोदर्शनम
अन्वयभाष्यम्। सोऽयं चेतनः आत्मा बहिर्धा ब्रह्माण्डे उत अन्तर्धा पिण्डे अस्मिन् शरीरे च, एवं अन्तर्बहिरपि सः परोक्षः सं सम्यक्तया समानरूपेण आपृतः व्याप्तः पूर्णः, सः स्वयं अमृतः विकार-विकासादिरहितः प्रचेतनः प्रकृष्टचेतन: केवलं चैतन्यमात्र: आत्मा, मात्रायाः मानात् परः मानादिरहितः अमात्र: इति यावत् , सः अस्य विश्वस्य ईशानः ईशिता, इदं समग्रं विश्वं जगत् अधि अधिष्ठित: विश्वरूपः सन् बभौ इति ॥
COMMENTARY-SUMMARY TRANSLATION This soul, the conscious energy, is externally in the macrocosm (Brahmānda) and internally in the microcosm (pinda). It is an invisible power which pervades everything equally and fully. He is immortal without any change whatsoever. He is the pure energy of consciousness itself. He is, in short, the Atmă beyond all measure. He is the ruler of this cosmos at large. He is this whole universe which is contained in him.
सप्तमी ऋक् । अयं प्रजानन् अर्जन्यः सन् अर्मयोऽयं विश्वा राजतेऽन्तर्य एकः ॥ अयं स्वराट् सम्रा विराड् विभुः प्रभुरयं सत्योऽयममृतो विश्ववेदाः ॥ ७ ॥ अयम् । प्रजानन् । अर्जन्यः । सन् । अमर्त्यः । अयम् । विश्वऽथा । राजते । अन्तरिति । यः । एकः ॥ अयम् । स्वऽराट् । सम्ऽराट् । विऽराट् । विऽभुः । प्रऽभुः । अयम् । सत्यः । अयम् । अमृतः । विश्वऽवैदाः ॥
अष्टमी ऋक् । तत् ते देव सवितः पुरुषात्मन् संविदाऽयं तपस्यन् अनु तुरीयम् ॥ पदं पश्यामि दर्शतं सम्परीतं तत् परमं ज्योतिर्विश्व॑स्य दर्शयत् ॥ ८ ॥