SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 318 छन्दोदर्शनम beings as Vaiśvānara; with the help of prāņa (the outward breath ) and apāna (the inward one), I digest the four-fold food" (Gita XI). This is the indwelling soul, full of the power of knowledge, power of intellect, thought and watchfulness. With the internal instrument (antahkaraņa ), he knows all and experiences all and everything within himself. पञ्चमी ऋक् । अयं विश्ववेदाः पुरुषः स इन्द्रो विद्यता द्योततेऽद्भिः प्राणमरुद्भिः॥ सुप्तिसदात्मा चेते तेजसाऽन्त भिसदिमां तनूं दधे रुद्रियः ॥५॥ पदपाठः – अयम् । विश्वऽवेदाः । पुरुषः । सः । इन्द्रः । विऽद्यता । द्योतते । अत्ऽभिः । प्राणैः । मरुत्ऽभिः ॥ सुप्तिऽसत् । आत्मा । चेतते । तेजसा । अन्तरिति । नाभिऽसत् । इमाम् । तनम् । धे । रुद्रियः ॥ This is the omniscient Purusha. He is Indra. He shines with the help of Maruts, with the lightning, the waters and all the forces of life. He is the soul in dreamless sleep. With his power of light, he vibrates within. Being located in the navel and deriving his power from Rudra, he supports this body. अन्वयभाष्यम्। अयं सर्वान्तरः आत्मा विश्ववेदाः विश्वविज्ञानसत्त्वः तथा पुरुषः विश्वबीजात्मकपुरुषत्वसत्त्वयुक्तः सः परोक्षसिद्धः इन्द्रः अधिदैवततत्त्वेन सिद्धः पारमैश्वर्यादिसर्वसत्त्वपूर्णः सन् विश्वस्यैव प्रभवति, सः विद्युता वैद्युतज्योतिःशक्त्या तथा तदाश्रयीभूताभिः अद्भिः रससत्त्वाभिः मरुद्भिः स्वीयैः सखिभूतैः मरुद्गणैः सहितः तथा प्राणैः आपोमयैः सञ्जीवनसत्त्वैश्च साकं द्योतते अन्तरिक्षे स्वे भुवने गुप्ततया राजते | तत्तद्वारा प्रकाशते आविर्भवति इति भावः । सोऽयं सुप्तिसत् सुप्तिस्थाने मध्यमे पदे तृतीये सन्धिरूपे पदे प्रतिष्टितः आत्मा चेतनः अन्तः तेजसा तेजःसत्त्वेन स्वरूपेण चेतते जागृतः सन् स्फुरति, अत एव नाम्ना अपि सः तैजसः इति उपनिषदि प्रसिद्धः, “स्वप्नस्थान: अन्त:प्रज्ञः० प्रविविक्तभुक् तैजसः" इति तद्वचनम् (मां. उ.) तथा नाभिसत् अन्तःशरीरे नाभिसंस्थः, बहिस्तु अन्तरिक्षस्थः
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy