________________
316
छन्दोदर्शनम् अयम् । अन्तरिति । सम्प्रसादऽसत् । प्रऽचेतनः।
प्रत्यङ् । प्रऽज्ञः । अधि । विश्वऽथा । चिकेतति ॥ This Ātmå shines on account of the power of intelligence. He is the very sun ( in the universe) and shining in the inmost heart with the power of intelligence and of speech and other powers of consciousness. He is the inner being in full ecstacy and full of knowledge of everything.
अन्वयभाष्यम् । अयं सर्वान्तर: आत्मा धीभिः सवित्सत्त्वाभि: अभितः द्योतते प्रकाशते | अयमेव बहिः ब्रह्माण्डे सविता प्राणिनां प्रसविता-जनयिता प्रेरयिता च सन् असौ दिव्यः अभिद्योतते मण्डले निजे अन्तरधिष्ठित: देदीप्यते, अभितः सर्वतः प्रकाशयति च | तथा प्रज्ञया संवित्सत्त्वया धिया वाचा वाचिकया शब्दतन्मात्रया प्रज्ञपनिया स्वं गुप्तं अर्थं वाच्यार्थसत्त्वं लक्ष्यार्थं च प्रकर्षण ज्ञापयन्त्या चिता चेतनया सर्वदा स्वयमेव प्रकाशते, सोऽयं आत्मा अन्तः आन्तरतमः सन् सम्प्रसादसत् सुषुप्तिसंस्थ: तथा समाधिनिष्ठः प्रचेतसः केवलं चेतनः प्रत्यङ् अन्तर्मुखः प्रत्यगात्मस्वरूप: प्रज्ञः प्रकृष्टज्ञानसत्त्वपूर्णः, अधि अध्यात्मतत्त्वत: सिद्धः विश्वथा सर्वथा चिकेतति जानाति, सोऽयमात्मा अन्तरात्मनि स्वस्मिन्नेव प्रतिष्टितः सन् आत्मानं नित्यं अशरीरत्वादि सत्त्वपूर्ण स्वयमेव अनुभवतीति ॥
COMMENTARY--SUMMARY TRANSLATION This Atmā, the internal soul, shines with all the powers of intellect and with powers of knowing. This is like the sun outside in the universe, who inspires all with light. He is a divine being shining for ever independently within his own orb. The Atmā has great power of intelligence and speech. This Atmå who is in the inmost heart, is always in dreamless sleep as it were. He is pure conscious energy. He is the soul turned inward. He is full of knowledge and strength. He knows all and everything. He is established within the heart and experiences himself in the form of knowledge of everything.
चतुर्थी ऋक् । अयं जातवेदाः पुरुषोऽन्तरग्निमनसाऽधि सोमेनाग्नेन भूम्ना ॥ अयं वैश्वानरः पचत्यनमन्तः प्रत्यङ् अप्तिसदभिचष्टे चेतसा ॥ ४ ॥