________________
छन्दोदर्शनम्
315
अन्वयभाष्यम्। अयं सोऽयं चेतन: आत्मा ज्योतिषा प्रथमेन तेज:सत्त्वेन, रसेन द्वितीयेन अप्सत्त्वेन, भूम्ना तृतीयेन भूमिसत्त्वेन च आचितः सर्वसारभूतः सन् समुदितः, सर्वषां अन्त: प्रत्यङ् प्रत्यगात्मरूपेण प्रतिष्ठितः अस्ति, सोऽयं त्रिवृता त्रिवृदितेन तेजो-जल-भूमिसत्त्वेन समानैकरसभूतेन अन्नेन भोज्येन सञ्जीवनीयेन अमृतरूपेण दुग्धेन रस-धन-स्निग्धपदार्थकसत्वेन दुग्धादिना वा पोषितः सन् तैः एतैः त्रिसत्त्वेः सह तेजोजलानोदितैः सर्वैः प्राणभृद्भिः सम्भृतः, सन्धृतः, सचेतनो बभूवेति यावत् ॥
___ सोऽयं अन्तरात्मा अस्मासु सर्वेषु जन्तुषु अन्तः शरीरे हृदयं अधिष्ठितः सन् वाचा संवित्सत्त्वया, प्राणेन कृतिसत्वेन, मनसा कामना-भावना-कल्पनादिसत्त्वेन च, इत्यनेन तेजोऽबन्नात्मकेन करणत्रयेण सह चेतनेन चैतन्यसत्त्वेन प्रचेतते संस्फुरति | तथा चेतमानः अयं स्वयं संवित् क्रियेच्छाप्रधानानि वाक्-प्राण-मनःस्वरूपाणि एतानि आन्तर्याणि त्रीणि करणानि प्रचेतयति इति सिध्यति ॥
COMMENTARY SUMMARY TRANSLATION
This inner soul is intelligent energy. He is the unified essence of all the three principles of light, fluid and earth. He is established within all. This soul within the body is born of and supported by the principles of light, fluid and earth, found in food and other substances. The ' anna' is food, in the form of any eatable, ambrosia, or milk products, which are in the form of solid, liquid and fatty substances. The Soul in us and all the living beings vibrates with Vāk in the form of intelligence, desire or power of action. The power of consciousness is united with Vák, Prāṇa and Manas which are the essence of Tejas, Ap and Anna. This vibrant inner soul inspires the three internal instruments, Vak, Prana and Manas, which express themselves as knowledge, action and desire.
तृतीया ऋक। अयं धीभिरभि द्योततेऽसौ सविता प्रक्षया वाचा प्रेक्षपन्या चित्तिभिः ॥ अयमन्तः सम्प्रसादसत् प्रचेतनः
प्रत्यड् प्रशोऽधि विश्वथा चिकतति ॥३॥ पदपाठः – अयम् । धाभिः । अभि । द्योतते । असौ । सविता ।
प्रज्ञया । वाचा । प्रऽज्ञपन्या । चित्तिऽभिः ॥