SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् 313 अथ पञ्चमेऽनुवाके चतुर्थ आत्मसूक्तम् । अनुवाकः ५ । सूक्तम् ४। ऋचः १-८। आत्मा । अयं प्रत्यङ् पुरुषः अष्टौ, दैवरातो वैश्वामित्रः, आत्मा, जगती । Now this the Atma Sukta, Fourth in the Fifth Anuvaka Section v: Hymn 4: Riks 1-8-ATMA This hymn beginning with “Ayam Pratyan Purushah” contains eight Rks. Daivarāta Vaiśvāmitra is the Rshi, Ātma is the god and Jagati is the metre. अथ प्रथमा ऋक् । अयं प्रत्यङ् पुरुषः स आत्मा परः सन्नपातनूरकरणोऽप्राणः ॥ संविदा कामैन कर्मणा प्रचितो ऽयं वाचा स्वधयाऽधि चेततेऽन्तः ॥ १ ॥ पदपाठः – अयम् । प्रत्यङ् । पुरुषः । सः । आत्मा । परः । सन् । अपात् । अतनूः । अकरणः । अप्राणः ॥ सम्ऽविदा । कामैन । कर्मणा । प्रचितः । अयम् । वाचा । स्वधया । अधि । चेतते । अन्तरिति ॥ This person (soul) who turns his sight inward is the highest Atman. He is without any parts, without a body, without any means of action, without the vital power. Being invested with pure consciousness, will-power, and the power of action, he inspires every one from within, by the power of speech. अन्वयभाष्यम्। अयं आत्मा प्रत्यङ् अन्तर्मुखः सर्वेषां प्राणभृतां शरीरे अन्तर्हितः सचेतनः पुरुषः पुरुषसत्त्वः ज्योतिर्मयः सः परः सर्वभ्यः उत्तमः परम: आन्तरतमः सन् केवलं सत्स्वरूपः, सः स्वयं अपात् अंश-गुण-धर्म-रूपादि पादविशेषविरहितः, अतनू: अशरीरः शरीरादि सम्बन्धरहित: अकरण: बुध्यादिसवन्द्रियवृत्तिविशेषादिबन्धनिर्मुक्तः सर्वविषयैरपि अलिप्तः एवास्ति, तथा अप्राणः प्राणादिभिरपि अनिबद्धः असंस्पृष्टश्च केवल: चैतन्यमात्राशबलः इति यावत् || CD-40
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy