________________
308
छन्दोदर्शनम्
Life lived according to religion, performance of sacrifices etc. were instrumental for the expression of Atma as embodied being. Atma was there as seed. That same Atma is in the body as an active principle. He is the truth, he is immortal and omniscient. Cf: "This soul with food, intellect, speech, knowledge etc. which are dependent upon it, lives and moves in the bodies which are mortal."
पदपाठः -
एकादशी ऋक् ।
अ॒हं ज्योति॑ष॒स्तप॑सा॒ऽभ्युदि॑तो॒
ऽहं दे॒वैर्ऋषि॑भ्यश्चेत॑सा रा॒तः ||
ऋषि॑जा॒तोऽयमृषि॑र्दे॒वरा॑त॒ः
स स॑त्या॒ऽयम॒मृते॑ वि॒श्ववे॑दा॒ः ॥ ११ ॥
1
अहम् । ज्योति॑पः । तप॑सा॒ । अभि । ऊत्ऽईतः । अ॒हम् । दे॒वैः। ऋषि॑ऽभ्यः । चेतसा । रा॒तः ।। ऋषैः। जातः । अ॒यम् । ऋषि॑ः । दे॒वऽरा॑तः । सः। सत्यः। अयम् । अ॒मृत॑ः । विश्वऽवे॑दा॒ः ।।
-
I am born on account of the tapas of brilliant forefathers. I was a gift of gods given to seers out of sincerity. I am born of a seer, and am the seer Daivarata. The Atma is truth, is immortal and is omniscient.
अन्वय भाष्यम् ।
अहं अहम्प्रत्ययगम्यः अन्तर्यामी अयमन्तरात्मस्वरूपः तपसा आर्षवंशे प्रादुर्भावेन कर्मणा सद्भावनया संविदा मन्त्रदर्शनेन च साक्षात् ऋषिस्वरूपोदयार्थं स्वाचरितेन च चिरन्तनेन धर्म-यज्ञ- योगादिना साधनविशेषेण ज्योतिषः पितुः ज्योतिरात्मनः सकाशात् तेजोमयात् सुवीर्यात् ब्रह्मवर्चसाच्च अभ्युदितः दिव्यभावेन सिद्धः अभूवम् सोऽयमहं पुनः तैः देवैः दिव्यात्मभिः चेतसा मनसा सद्भावसत्त्वेन सौमनस्येन ऋषिभ्यः आर्षेयदृष्टियुक्तेभ्यः मुनिभ्यः योगिभ्यः यतिभ्यः संप्रमिभ्यश्च रातः दत्तः ऋषित्व सम्यगढ शित्वादिसत्त्वाभ्युदयप्राप्तये तपोयोगादिशिक्षणार्थं समर्पितः इति यावत् । अयं आत्मा ऋषेः मूलपुरुषात् शुनःशेपापरनाम्नः देवरातात् जातः प्रादुर्भूतः अयं देवरातः ऋषिः ऋषित्त्वलक्षणेन सम्पन्न: अभवत्, वरुणादिभिः देवैः विश्वामित्राय दत्तः शुनःशेपो देवरातः इवैवेति भावः, सोऽयं अन्तरात्मा सत्यधर्मा अमृतत्वादिसत्त्वसम्पन्नः विश्वेषां वेदानां तत्त्ववेत्ता च भवतीति ॥