________________
छन्दोदर्शनम्
307
दशमी ऋक् । पूर्वेभ्योऽयमृषिभ्योऽहं परियन् पूर्वेष्वयं पितृषु ज्योतिषाऽऽप्तः ॥ अयं पितृभ्यस्तपसाऽभ्युदितः
स सत्योऽयममृतो विश्ववेदाः ॥ १० ॥ पदपाठः – पूर्वेभ्यः । अयम् । ऋषिऽभ्यः । अहम् । परिऽयन् ।
पूर्वेषु । अयम् । पितृषु । ज्योतिषा । आप्तः ।। अयम् । पितृऽभ्यः । तप॑सा । अभि । उत्ऽइतः ।
सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥ This Atmà which calls itself T' is descended from the ancient seers. It entered and continued its decent in our forefathers through the light, the seed of ancestors. From the forefathers, it has taken birth through their tapas. He is the truth, he is immortal and omniscient.
अन्वयभाष्यम्। अयं अहं आत्मा पूर्वेभ्य: अस्माकं प्राचीनतरेभ्य: ऋषिभ्यः वसिष्ठ-विश्वामित्रप्रभृतिभ्यः देवरातप्रभृतिभ्यो वा गोत्र-प्रवरादिप्रवर्तकेभ्यः बीज-क्षेत्रप्रवाहपरम्परया अविच्छिन्नधारया सन्ततया परियन् प्रतिगच्छन् तथा आगच्छन् इति यावत्, अयं आत्मा पूर्वेषु प्राचीनेषु पितृषु तथा अर्वाचीनेषु प्रपितामह-पितामह-पितृरूपेषु ज्योतिषा तेजोमयेन सुवीर्येण प्राप्तः अवतीर्णः अर्वाचीनतामुपगतः, सोऽयं आत्मा पितृभ्यः साक्षात् पितुः सकाशात् तपसा बाह्याभ्यन्तरेण शास्त्रीयनियमपूर्वकं समाचरितेन धर्म-यज्ञ-योगादिरूपेण साधनविशेषेण संस्कृतः अभि आभिमुख्येन साक्षात् सशरीर: सन् उदितः अजनिष्ट जीवसत्त्वेन सम्पन्नः इति यावत् | सोऽयं आत्मा शारीरः सचेतनः सत्यः सत्स्वरूपः अमृत: विकार-विनाशादिरहितः विश्ववेदाः सर्वज्ञसत्त्वसिद्धः स्वयं भवति ॥ " जीवो मृतस्य चरति स्वधाभिरमों मत्येनासयोनिः" (ऋ. म. १-१६४-३०) इति मन्त्रवर्णनिर्दिष्टः “प्रत्यङ् देवानां विशः प्रत्यङ् उदेषि मानुषान्” (ऋ. मं १-५०-५) इति च तदर्थानुश्रवणं भवति ||
COMMENTARY—SUMMARY TRANSLATION This I', the Atma is derived from our ancient seers, Vasishtha, Visvamitra and others or Devarāta and others, through direct and continuous flow of 'seed'. This descended into our forefathers as 'light' which was splendid and strong. This Atma issued forth, as Tejas, which was in the form of life.