________________
306
छन्दोदर्शनम
___ अत्र केवलस्य चेतनात्मनः तेजो-जल-पृथिवीसत्त्वेन भूतत्रितयेन आदिसृष्टौ सशरीराणां सचेतनानां च मनु-वसिष्ठादीनां अयोनिजानां आदिमानां आविर्भावः संवृत्तः, इति तदिदं तत्त्वं वसिष्ठाविर्भावे प्रदर्शितम् , “ विद्युतो ज्योतिः परि सञ्जिहानम् " (ऋ. मं. ७) इति चतुर्भिर्मन्त्रैः, “यो वा वसिष्ठो ह वशी ऋषीणाम् ” इति अस्मिन् सूक्ते चतुर्थ मन्त्रे ॥ तस्यैवायं विशिष्टोऽर्थः यजुर्वे देऽपि अनुश्रूयते, “ अद्भ्यः सम्भूतः पृथिव्यै रसाच्च । विश्वकर्मणः समवर्तताधि | तस्य त्वष्टा विदधद् रूपमेति | तत् पुरुषस्य विश्वमाजानमग्रे" (ते. ) इति ॥ “ अद्भ्यः सम्भूतः० तन्मय॑स्य देवत्वमाजानमग्रे (शु. य. सं. ३०-१७) इति || सोऽयमर्थः अत्र छन्दोदर्शने (अस्मिन्नेव सूक्ते) पूर्वस्यां अष्टम्यामृचि सन्दृष्टः, स च समर्थित: भाष्ये सङ्क्षेपतः दिग्दर्शनार्थम्, योनिजानामुत्पत्तिस्तु अस्यां नवम्यामृचि प्रदर्शिता, तत्क्रमस्तु पञ्चाग्निविद्यायां विस्तरश: अनुश्रूयते उपनिषत्सु समर्थितम् ॥ " असौ वाव लोको गौतमाग्नि:०" इत्यादि आरभ्य “इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति " इत्यन्तम् बहुधा प्रपञ्चितम् (बृ. उ. ६-२९-१३) (छां. उ. ५-३-१-१० ) तत् सर्वं ब्रह्ममीमांसायां निर्णीतम् ॥ तत्र तृतीयस्यामाहुतौ पृथिव्याः सकाशादेव योगेन च त्रिवत्करणेन आविर्भावः अयोनिजानाम्, तथा च ऋङ्मन्त्रवर्णः, “ द्यौमें पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम् | उत्तानयोश्चम्वोर्यो निरन्तरत्रा पिता दुहितुर्गभमाधात् " (. मं १-१६४-३३ ) इति ॥ पञ्चम्यामाहुतो मातुः सकाशात् योनिजानां उत्पत्तिः प्रत्यक्षसिद्धैवेति विवेकः ॥
COMMENTARY-SUMMARY TRANSLATION This is Atmā, the conscious energy. He was born as Tejas ( the principle of light ) from the earth. He entered into the juicy food which grows out of the earth. It was quite enjoyable. The essence of food took the form of semen in the, body. From that semen, which contained the splendour and the essence of the earth and all energy, were born the Rshis of old and then the later ones. That ensured the continuity of the seers.
From the original elements viz., Tejas, Jala and Prthvi, born of Atma at the very beginning, Manu, Vasishtha, and other seers, were born as Ayonijas, i.e. born of no woman.
In this ninth mantra, the birth of those seers born of woman is described, which is further detailed in the Panchagni Vidyā of the Upanishads: Cf: “This world Gautama is Agni" etc. (Br. Up. VI-2, 9 to 13). Again, "The waters get the name of Purusha, in the fifth oblation" etc. (Chhänd. Up. 5-3, 1 to 10). So, another mantra also says, “The sky or the sun was my father. This earth was my mother; the mid-air is the relation joining these two ” (Rg. I-164,34). In the fifth oblation, the birth of those born of woman is described.