________________
296
छन्दोदर्शनम
य एकषिर्ऋषीणा ऋषितमः
स सत्योऽयममृतो विश्ववेदाः ॥ ३ ॥ पदपाठ :- यः। अधि । छन्दःऽभिः। ऋषीन् । अजनयत् ।
छन्दसा । एव। अनु । ऋषिषु । प्रऽविष्टः ॥ यः । एकऽऋषिः। ऋषीणाम् । ऋषिऽतमः ।
सः । सत्यः । अयम् । अमृतः। विश्वऽवेदाः ।। He created the seers with the aid of the Vedas, and entered the hearts of those seers in the form of Vedic mantras. He is the seer of all seers; he is the only seer. He is the truth, he is immortal and omniscient.
अन्वयभाष्यम्। यः आत्मा परम: पुरुषः छन्दोभिः गायत्र्यादिभिः तदुपबद्धः वेदमन्त्रैश्च वेदैश्च विज्ञानरूपैः वेदमन्त्रदर्शनार्थं दिव्यदृक्सत्त्वप्रदानेन ऋषीन् मन्त्रद्रष्टरूपान् सम्यग्दर्शनपूर्णान् अजनयत सम्भावयामास, अत एव यः मन्त्रमुखेन “ ऋषिकृत्” इति स्तूयते, "ऋषिमना य ऋषिकृत स्वर्षाः” (ऋ. मं. ९-९६-१८) इति "भृमिरस्य॒षिकृन्मानाम् " (ऋ. मं. १-३१-१६) इति च सुस्पष्टार्थकं तदनुश्रवणम्, यश्च पुनः छन्दसा तेन वेदरूपेण विज्ञानेन तत्परमवस्तुतत्त्वानुभावात्मकेन तथा छन्दस्वत्या वाचा तच्छन्दोरूपेणैव ऋषिषु स्वप्रणीतेषु तेषु अनुप्रविष्टः अनन्तरमेव प्राविवेश इति भावः, अत एव तेषां ऋषीणां मुखादेव छन्दस्वत्याः वाचः उपलब्धिरनुश्रयते "यज्ञेन वाचः पदवीयमायन् तामन्वविन्दन् ऋषिषु प्रविष्टाम् ।" (क्र. मं. १०.७१-३) इति ||
यश्च एकर्षिः सर्वेभ्योऽपि प्रधानः प्रथमः सन् सः एकर्षिः इति वेदोपनिषदादिषु मन्त्रमुखेनैव अभिष्टुत: अनुश्रूयते ॥ “ पूषन् एकर्षे यम सूर्य०” इति यजुर्मन्त्रवर्णः प्रसिद्धः (वा. सं . अ. ४०-१६ ; ईशोप. १६) ॥
“क्रियावन्तः श्रोत्रिया ब्रह्मनिष्टाः स्वयं जुह्वत एकर्षि श्रद्धयन्तः” (मुं. उ. ३-२-१०) इति “व्रात्यस्वं प्राणैकऋषिरत्ताविश्वस्य सत्पतिः” इति च औपनिषदं वचनम् (प्र. उ. २-११) || अत एव यः ऋषीणां अपि ऋषितमः, श्रेष्टतमः परमर्षिः इन्द्रः इति ब्रह्मात्मेति च संस्तूयते ताभिरेव छन्दस्वतीभिः वाग्भिः स महत्तमः इति च || “ इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पुरूपुरुहूत: । महान् महीभिः शचीभिः" इति (ऋ. मं.) स एव इन्द्रः तेषां छन्दसां वर्षक: “यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात् सम्बभूव । समेन्द्रो मेधया स्पृणोतु " (श. उ. ४-१) इति ॥ छन्दसां वर्षकः सन् स इन्द्रः छन्दोमुखादेव स्वयं आविर्बभूवेति ||