________________
छन्दोदर्शनम
297
सः एवंलक्षणः आत्मा अयं आन्तर: सत्यत्वामृतत्वादिसत्त्वसिद्धः विश्ववेदा: सर्वज्ञः सर्वज्ञकल्पैः विश्वैः वेदैः छन्दोभिः स्वयं पूर्णः इति ॥
COMMENTARY-SUMMARY TRANSLATION He is Ātmā, who created the seers, with the aid of metres and mantras. The Vedas are realised knowledge. The seers are endowed with the power of vision, which visualises the mantras. He created the seers and conferred on them the superhuman power of perceiving the Vedas in the form of mantras. So, the mantras say that he is the maker of seers.
चतुर्थी ऋक् । यो वशी वसिष्ठो मैत्रावरुणो विद्युत उर्वश्या मनसः प्रजज्ञे || मन्त्रकृत् सन् महंसां यो महस्वान्
स सत्योऽयममृतो विश्ववेदाः ॥ ४ ॥ पदपाठः - यः । वशी। वसिष्ठः । मैत्रावरुणः।
विद्युतः । उर्वश्याः । मनसः । प्रजातः ॥ मन्त्रऽकृत् । सन् । महसाम् । यः। महस्वान् ।
सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥ He is indeed Vàsishtha, being the most self-possessed of all the seers. He is born of Urvasi's mental powers which are spread all over like lightning. He is indeed the creator of mantras and the most radiant of all who shine. He is the truth, he is immortal and omniscient.
अन्वयभाष्यम् । यः आत्मा परमः पुरुषः वसिष्ठः वसितृतमः वरिष्ठः श्रेष्ठतमः अत एव ऋषीणां सर्वेषां मुनीनां द्रष्टृणां तथा प्राणरूपाणां धीन्द्रियाणां च अध्यक्षः वशी सर्वतन्त्रस्वतन्त्रः वशीकृतप्राणादिसर्वन्द्रियग्रामः सर्वेषु ज्येष्ठः, अत एव नाम्नाऽपि वसिष्ठः इति प्रसिद्धः एवास्तीति ॥ तथा च उपनिषत्सु उपदिष्टं प्राणानां अपि ऋषित्वं अनुश्रूयते || " तस्यासत ऋषयः सप्त तीरे” इति “प्राणा वा ऋषयः प्राणानेवैतदाह" (बृ. उ. २-२-३ ) इति ॥ तेषु च प्राणेषु वसिष्ठत्वं ज्येष्ठत्वं श्रेष्ठत्वं च मुख्यप्राणरूपस्य आत्मन एवेति च श्रूयते || " यो ह वै ज्येष्ठं च श्रेष्ठं च वेद० | प्राणो वै ज्येष्ठश्च श्रेष्ठश्च०" इत्यादि, अथ पुन: “ यस्मिन् वः उत्क्रान्ते इदं शरीरं पापीयो मन्यते स वो वसिष्ठः इति०॥- सा ह वागुवाच यदहं वसिCD-33