________________
261
छन्दोदर्शनम् पदपाठः - यः। विश्वतः । सीम् । प्रथमम् । बभूव । स्वयम् ।
यस्मिन् । अन्यत् । न । वभूव । इह । किम् । स्वित् ॥ यः । एकः । सन् । तपसा । सम् । चिकेत । अन्तरिति । सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ।।
द्वितीया ऋक् । यो वा ज्योतिषा तपस्यन् सहसाऽन्तः स्वमक्षरं मन्त्रमीमनु स्वरति ॥ य ई स्वरेण विश्वमिदं समधमत्
स सत्योऽयममृतौ विश्ववेदाः ॥ २ ॥ पदपाठः – यः । वा । ज्योतिषा । तपस्यन् । सहसा । अन्तरिति ।
स्वम् । अक्षरम् । मन्त्रम् । ईम् इति । अनु । स्वरति ॥ यः । ईम् इति। स्वरेण । विश्वम् । इदम् । सम् । अधमत् । सः । सत्यः । अयम् । अमृतः । विश्वऽवैदाः ॥
तृतीया ऋक् । य ई स्वरन्तं गुह्यमेवानु स्वरन्
ओमिति स्वगं वाचं समुच्चरति || यो वाऽक्षरं सद् ब्रह्म परमं
स सत्योऽयममृतो विश्ववेदाः ॥ ३ ॥ पदपाठः – यः । ईम् इति। स्वरन्तम् । गुह्यम् । एव । अनु । स्वरन् ।
ओम् इति। इति। स्वराम् । वाचम् । सम् । उत्ऽचरति ॥ यः । वा । अक्षरम् । सत् । ऊम् इति। ब्रह्म । परमम् । सः । सत्यः । अयम् । अमृतः। विश्वऽवेदाः ॥