________________
छन्दोदर्शनम
209
वागेव विदा ज्ञानशक्त्या प्रत्यक्षं ब्रह्म तद्ब्रह्मात्मनः वाचकशक्तिरूपा, वाच्यः तद्वाच्यार्थवस्तुस्वरूपः स: ब्रह्मणस्पतिः, इत्येवं एतदेव तयोः समानार्धात्मकत्वं, तस्मात सः परः आत्मा वाचस्पतिः सन् शचीपतिः इत्यादि नामरूपादिभिः संस्तुत: वेदे प्रसिद्धः श्रयते इति ॥
COMMENTARY_SUMMARY TRANSLATION Oh Brahmaṇaspati ! you and Vāk, your supreme power of expression, are united in all respects. In all ways, you are the equal halves. You are so from time immemorable and remain so for ever. So, the Vak supreme, is manifest Brahman as power of expression. The expressible, however, is Brahmaṇaspati. This is how they are the equal halves of the total Reality. He is Ātma the supreme. Brahmaṇaspati is well-known in various ways by names and forms, Vachaspati, Sachipati etc.
चतुर्थी ऋक् । सरस्वति त्वं च बृहस्पतिर्मिथश्छन्दसा स्थो युवा नेमसमात्मानौ ॥ दम्पतीव प्रभवथः समानौ
वाग् विदा बृहती स्वयमात्मा पतिः ॥ ४ ॥ पदपाठ :- सरस्वति । त्वम् । च । बृहस्पतिः । मिथः ।
छन्दसा । स्थः । युवाम् । नेमसमऽआत्मानौ ॥ दम्पती इवेति दम्पतीऽइव । एव । प्र । भवथः । समानौ ।
वाक् । विदा । बृहती । स्वयम् । आत्मा। पतिः॥ Oh Sarasvati ! you and Brahmaṇaspati are interlocked by metres, and you two are equal halves. You are like a married couple equal in all respects. Våk, on account of the power of intelligence, is the Great One, and this Atma is the husband. .
अन्वयभाष्यम् हे सरस्वति ! त्वं बृहस्पतिश्च मिथः परस्परं योगेन छन्दसा अनादिसम्बन्धसिद्धेन अलौकिकेन रसेन युवां द्वौ देवतात्मानौ नित्यसिद्धौ नेमसमात्मानौ समानार्धात्मसत्त्वानौ स्थः तौ युवां स्वस्वसत्तया सहैव आसथुः इति भावः, तेन च तौ युवां समं समभावेन दम्पती इवैव जाया-पती इव सह सर्वस्मिन्नपि अर्थ लौकिके अलौकिके च प्रापंचिके पारमार्थिकेऽपि मिथो योगेनैव प्रभवथः ईशाथे विश्वेषां आधिपत्ये शक्नुथः, सा वाग् दिव्या परा देवतात्मा विदा ज्ञानशक्त्या बृहती ब्रह्मसत्त्वा ब्रह्मवस्तुवद् व्यापका अभिवृद्धिसत्त्वपूर्णा च अस्ति, CD-27