SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ 198 छन्दोदर्शनम He really transcends the universe. He dwells in the hearts of all as the inmost soul. He who is to be realised vibrates with the light of knowledge. I attain this Purusha by identity with Him and in full harmony. द्वितीया ऋक् । यो भूतः सन्नधि प्रति भूते ततो यो देवः सन्नधि प्रति दैवते ततः ॥ यो अन्तरुतात्माऽध्ययमात्मस्ततः समेन तं पुरुष प्रपद्ये रसैन ॥ १॥ पदपाठ :- यः । भूतः । सन् । अधि । प्रति। भूते । ततः । यः । देवः । सन् । अधि । प्रति । दैवते । ततः ॥ यः। अन्तरिति । उत । आत्मा । अधि । अयम् । आत्मन् । ततः । समेन । तम् । पुरुषम् । प्र । पद्ये । रसैन ॥ He who is eternally self-existent pervades every other existence. He who is light incarnate pervades every existent deity. He who is the Paramātman, pervades every other soul. Him I attain by being in tune with Him in full harmony. अन्वयभाष्यम् । यः स्वयं भूतः विद्यमानः सन् तथा स्वेनैव सद्रपेण आविभूतश्च सन् प्रति भूते प्रत्येकस्मिन् अधिभूते वस्तुनि ततः, आत्मनः सकाशादाविर्भूते जगति प्रति ततः प्रातिमुख्येन भूयो विततः, तथा यः देवः स्वयं देवतात्मा प्रकाशकः सन् प्रति दैवते अधि ततः परोक्षेण अधिदैवततत्त्वेन व्याप्तः, उत अपि च यः स्वयं आत्मैव सन् अध्यात्मसत्त्वेन स्वेन सर्वस्मिन् आत्मनि ततः, एवं अन्तर्यामिस्वरूपेण यः अधिभौतिके अधिदेवते अध्यात्मके च वस्तुनि सर्वस्मिन्नपि एकरूपेण सत्त्वेन चित्सत्तया च सन्ततोऽस्ति, तं परमं पुरुषं सामरस्येन तदेकीभावेन प्रपद्ये इति ॥ अत्र “अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशात्" इति (ब्र. सू. १-२-१८) ब्रह्मसूत्रनिर्दिष्टं अन्तर्यामिब्राह्मणतत्त्वमनुसन्धेयम् , तथा हि “ यः पृथिव्यां तिष्ठन् पृथिव्याः अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति एष त आत्माऽन्तर्याम्यमृतः” इति (बृ. उ. ३-७, ३-२३) “यः अग्नौ तिष्ठन्० " "यः आदित्ये तिष्ठन्०" "य: वचि तिष्ठन्०” “य: आत्मनि तिष्ठन्०" इत्यादि ॥ तत्र तत्त्वत्रयोदितेषु भूतेषु, देवेषु, आत्मसु च सर्वेष्वपि सिद्धवस्तुषु तस्य परमपुरुषस्य प्रतिष्ठा तथा तेषां सर्वेषामपि संयमनं च अनुश्रयते ।।
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy