________________
छन्दोदर्शनम
197
अथ तृतीयेऽनुवाके पञ्चमं ब्रह्मणस्पतिसूक्तम् ।
अनुवाकः ३ । सूक्तम् ५। ऋचः १-८ । ब्रह्मणस्पतिर्ब्रह्मणा प्रति अष्टौ, देवरातो वैश्वामित्रः, ब्रह्मणस्पतिः, जगती ।
Now the Brahmanaspati Sukta, fifth in Third Anuvaka
Section III, Hymn 5, Riks 1-8 - BRAHMAŅASPATI.
This hymn beginning with "Brahmanaspatirbrahmanā prati” contains . eight Rks. Daivarata Vaisvāmitra is the Rshi. Brahmanaspati is the god and Jagati is the metre.
अथ प्रथमा ऋक् । ब्रह्मणस्पतिर्ब्रह्मणा प्रति वाचा यो विश्वरूपः परः सन् विश्वतस्परि॥ यः प्रत्यङ् अयं चेततेऽन्तः संविदा
समेन तं पुरुष प्रपद्ये रसैन ॥ १ ॥ पदपाठ :- ब्रह्मणः । पतिः । ब्रह्मणा । प्रति । वाचा
यः। विश्वऽरूपः । परः। सन् । विश्वतः । परि' । यः। प्रत्यङ् । अयम् । चेतते । अन्तरिति । सम्ऽविदा ।
समेन । तम् । पुरुषम् । प्र । पद्ये । रसैन ।। Brahmanaspati who is one with Vak, the manifest Brahma, is perceptible as the vast universe, and yet he transcends everything. I attain that Purusha or Being, through full harmony and concord with Him. He it is who, in the inner soul, inspires and animates all.
अन्वयभाष्यम्। यः ब्रह्मणस्पतिः ब्रह्मणा छन्दोमयेन वाचा छन्दस्वत्या ब्रह्मण्यया प्रति ऋतः प्रातिमुख्येन सङ्गतः, य: विश्वरूपः विश्वतोमुखेन स्वरूपेण उदितः सन् अस्मात् विश्वस्मात् परः परि अतीतः व्याप्तः, यः अन्त: सर्वेषां अन्तहृदये प्रत्यङ् प्रत्यगात्मरूपः अयं अपरोक्षसिद्धः अहमयमस्मीति सर्वानुभूतितः प्रसिद्धः सन् संविदा ज्ञानकलया चेतते संस्फुरति चेष्टते, तं इमं स्वान्तरं पुरुष समेन रसेन प्रत्यक्ष-परोक्षापरोक्षाणां जगदीशजीवात्मनां सामरस्येन योगेन प्रपद्ये तादात्म्येन प्राप्नोमीति ॥
COMMENTARY-SUMMARY TRANSLATION Brahmanaspati is one with Vāk, in the form of Brahma, the Vedic mantra in metres ( Chhandasvati). He manifests Himself as multi-formed though