________________
190
छन्दोदर्शनम्
COMMENTARY-SUMMARY TRANSLATION Then Brahmaṇaspati placed in space his two feet in the form of opposites, such as light and darkness, truth and untruth. This pair is the pair of opposites. That is the nature of those two feet, one is conscious energy, and the other the unconscious energy of matter. On account of that, the Purusha came to be known as having two feet, but he is one with Vāk.
तृतीया ऋक् । ब्रह्मणस्पतिः स प्रचेतन एवं सन्नचेतन भूतमध्याविवेशं ॥ भूयोऽयं सचेतन आविर्भभ्व
स त्रिपात् पुरुषोऽयं साकं वाचा ॥३॥ पदपाठ :- ब्रह्मणः । पातः । सः । प्रऽचेतनः । एव ।
सन् । अचेतनम् । भूतम् । अधि । आऽविवेश ।। भूयः । अयम् । सऽचेतनः । आविः । बभूव । सः। त्रिऽपात् । पुरुषः । अयम् । साकम् । वाचा ॥
Brahmaṇaspati himself is forever pure conscious energy. He entered into unconscious energy which is matter. Again he manifested himself as sentient beings that is the Purusha with three feet. He is one with Vák.
अन्वयभाष्यम्। सः ब्रह्मणस्पतिः स्वयं सदैव स्वभावतः स्वरूपतश्च प्रचेतन: एव सिद्धः सन् सत्रामात्रात्मकः इदं सर्वं भूतं अचेतनं भूतजातं अधि अधिकृत्य आविवेश, एतेन अचेतनेन भूतेन सह सञ्जग्मे इति भावः॥ ततश्च भूयः एतैरेव भूतैः सह सः अयं केवल: चेतनः आत्मा सचेतनः सशरीरः सन् आविर्बभूव, तस्मात् सोऽयं पुरुषः विदा ज्ञानेन वाचा शब्दब्रह्मणा च साकं संहित: सन् त्रिपात् त्रिपादसत्त्वः इति सम्भाव्यते, तान्येतानि तस्य प्रधानानि सर्वेभ्यः प्रथमानि तत्त्वरूपाणि त्रीणि पदानि भवन्ति, -तथाहि- प्रत्यक्षं अचेतनं इदं जगदात्मकं अधिभूतं प्रथमम् तत्त्वम् (१), परोक्षं प्रचेतनं ईशात्मकं तत् अधिदैवतं द्वितीयम् (२), अपरोक्षं सचेतनं जीवात्मकं प्रत्यगात्मस्वरूपं आन्तरं अध्यात्म तृतीयम् ( ३), इति विवेकः ॥ अत्र प्रचेतनमेव ईशात्मकं अधिदैवतं प्रथमम् (१), अचेतनं जगदेव अधिभौतिकं द्वितीयम् (२), अपरोक्षं सचेतनं जीवरूपमेव आध्यात्मकं तृतीयम् (३) भवति ॥