________________
166
छन्दोदर्शनम् तद् विश्वेषाम॒मृतांना दिवस्पर
जीवातवे सम्मधुनोऽमृत भुव॑त् ॥५॥ पदपाठ :- ब्रह्मणः । पतेः। यत् । ऊम् इति । कवंम् । अग्रियम् ।
सत्यऽधर्मन् । विश्वस्मै । सर्वऽतातये ॥ तत् । विश्वेषाम् । अमृतानाम् । दिवः । पर।
जीवातवे । सम् । मधुनः । अमृतम् । भुव॑त् ।। Brahmaṇaspati's first and foremost action for Satya (truth ) and Dharma (law ) for the welfare of the universe and for the betterment of all was performed in the highest sky, beyond the grasp not only of the mortals but of the immortals also. It is eternal and the sweetest of all.
अन्वयभाष्यम् । हे सत्यधर्मन् नित्यसिद्धसत्यस्वभाव अथवा लुप्तसप्तम्यन्तं पदं सत्यधर्मणि सत्यधर्मार्थं सत्यधर्माणां मध्ये वा, विश्वस्मै जगते विश्वहितार्थं वा सर्वतातये सर्वपुरुषार्थसिद्धये च ब्रह्मणस्पते: तस्य तव यत् अप्रियं श्रेष्ठतम प्रथमं कर्वं कर्तव्यं कृतं कृत्यमस्ति, तत् विश्वेषां एतेषां मनुष्यादीनां सर्वेषां प्राणिनां अमृतानां देवानां एवं सर्वेषां जीवानां दिवः लोकत्रयादपि परि उपरि परतः परितश्च उच्चतरं व्याप्त्या जीवातवे नित्यं सञ्जीवनाय मधुनः प्रियात् सर्वस्मात् रसादपि अमृतं अमृतवत् शाश्वतं सुखशान्तिरसप्रदं सं भुवत् समभवदिति || तस्य ब्रह्मणस्पते वेदमुखेन कृतं सर्वात्मना सम्पन्नं सर्वज्ञानसत्त्वप्रकाशनमेव सर्वेषां जीवानां प्रज्ञानाय सञ्जीवनाय अमृतत्वादिपरमार्थाभ्युदयायैव कारणं परममास्पदं बभूवेति ।
COMMENTARY-SUMMARY TRANSLATION Satyadharma may be taken as a vocative or a locative without suffix. It means that Satya and Dharma are his very nature. For the welfare of the world and for the highest realisation, Brahmaņaspati did something. It was the best and first of his actions. That action was beyond all these mortal creatures and all the immortal ones. It has the power to give life to all. Further, it is sweeter than the sweetest of things. It is sweet like ambrosia, eternal and pleasant. The gist is that the first action of Brahmaṇaspati, namely creation of the Vedas, is the prime instrument for promoting all knowledge, giving all life and immortality to all the beings in this universe.
षष्ठी ऋक् । ब्रह्मणस्पतेर्ब्रह्मणा संविदाना
ब्रह्मेदं विश्वं दधति ब्रह्म भूमं ॥