________________
छन्दोदर्शनम्
167 ब्राह्मणासस्ते अमृतासो भवन्ति
सन्दुहानाः सुध्यो ३ मधु महस्परि ॥ ६ ॥ पदपाठ :- ब्रह्मणः । पतैः । ब्रह्मणा । सम्ऽविदानाः।
ब्रह्म । इदम् । विश्वम् । दधति । ब्रह्म । भूमं ॥ ब्राह्मणासः । ते । अमृतासः । भवन्ति ।
सम्ऽवुहानाः । सुऽध्यः । मधु । महः। परं ॥ Those who know Brahmaṇaspati through the mantra, which is the word giving the knowledge of Brahmanaspati, sees this universe as Brahma and attains Brahma which is immortal and infinite. Those wise men who know Brahma shed all around great joy or sweet beatitude.
अन्वयभाष्यम् । ब्रह्मणस्पतेः तस्य ब्रह्मणा वेदेन ज्ञानेन मन्त्ररूपेण च संविदानाः तत् परं वस्तुतत्त्वं अनुभूत्या सम्यक् स्वं निजं जानाना: इदं प्रत्यक्षसिद्धं विश्वरूपं ब्रह्म, तथा भूम ब्रह्म भूमात्मकं आनन्दरसस्वरूपं परमं ब्रह्म दधति धारयन्ति सामरस्येन अनुसन्दधतीति यावत्, ते त एव ब्राह्मणास: ब्राह्मणाः ब्रह्मविदः सुध्यः सुधियः बुद्धियोगेन सिद्धाः सन्तः परि परितः महः महत्तरं तेजोमयं मधु प्रियं अमृतं परब्रह्मतत्त्वानुभावानन्दरसं सन्दुहानाः सम्यक् प्रकाशनेन सर्वत्र सर्वेभ्यः वितरन्तः अमृतास: स्वयं अमृतात्मानः मुक्तपुरुषाः भवन्तीति ॥ अस्मिन्नर्थे प्रसिद्धार्थोऽयं ऋमन्त्रवर्णः-" यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते || कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव " (ऋ. मं. ९-११३-११) इति ॥ अत्र इन्द्रात्मनः ब्रह्मणस्पतेरेवेदं परमं सत्त्वमिति ऋषिरय योगेन सम्पश्यतीति हृदयम् ॥
COMMENTARY-SUMMARY TRANSLATION Those that become wise by the knowledge of mantras and the knowledge of Brahmanaspati, attain the visible Brahma in the form of the universe and also the Brahma invisible, Brahma beyond the visible universe. Those wise men, shed all around them the illuminating essence of knowledge; they become the Brahma; the knowers of Brahma become immortal and they are souls who have attained salvation.
सप्तमी ऋक् । ब्रह्मणस्पतिमीयुषी वाचमेतां प्रतीची विप्राः सन्धिया शृणोतन ॥