________________
छन्दोदर्शनम
165
पदपाठ :- यः । देवानाम् । देवऽतमः । सम् । दधाति ।
दृशे । विश्वस्मै । सुऽम तिम् । चेकितानः ॥ अग्रंम् । यज्ञानाम् । वरूथम् । तम् । अग्रियम् ।
ब्रह्मणः । पतिम् । ब्रह्मणा । सम् । दुवस्य ॥ Brahmanaspati is the highest of the gods; he is in possession of all sound knowledge, so that all the beings in the world may be able to get it from him. Therefore, Brahmanaspati, who is foremost in promoting sacrifices and who is the greatest among gods should be served by uttering mantras.
अन्वयभाष्यम् । यः ब्रह्मणस्पतिः देवानां देवतात्मनां अग्निसूर्यादीनां देवतमः श्रेष्ठतमः परमः सर्वदिव्यसत्त्वपूर्णः, सर्वेषामपि देवानां परमं दैवतमिति यावत् , चेतितानः जानानः स्वयं सर्वज्ञः प्रज्ञानरूपः सन् विश्वस्मै जगते सर्वस्मै जीवजाताय च दृशे दृष्टुं सर्वान्तरात्मवस्तुसाक्षात्कारार्थ सुमतिं सम्यग्ज्ञानं ज्ञानविज्ञानार्थी चिच्छक्तिसमर्था सन्मतिं च सन्दधाति उपासकेभ्यः दान्तुं सन्धारयति ददाति च सदनुग्रहेण, अत: अग्रं श्रेष्ठं प्रथमं सन्तं यज्ञानां ज्ञान-भावनाकृतिरूपाणां सर्वेषां यज्ञसत्त्वानां वरूथं अभिवर्धकं अग्रियं अग्रे स्थितं अग्रपूजाहं तं तादृशं परोक्षसिद्ध ब्रह्मणस्पतिं ब्रह्मणा प्रत्यक्षशब्दब्रह्मरूपेण मन्त्रेण सन्दुवस्य परिचर उपास्व इत्युपदेशः अत्र “दुवस्यतिः परिचरणकर्मा ” इति यास्कनिरुक्तम् ॥ "यक्ष्वामहे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य (ऋ. मं. ५-४२-११)” इति ऋङ्मन्त्रवर्ण तदनुश्रवणं सर्वतः प्रधानम् ॥
COMMENTARY-SUMMARY TRANSLATION ___He is the greatest of gods; He is himself superior to all gods. He is himself an all-knower. He holds within himself all knowledge so that he may give that knowledge to his devotees. So, he is the best and the first of all gods. He is the promoter of 'yajna' or sacrifice in the form of Jnana (knowledge), Bhavana (feeling) and Kriya (action). He is in the front rank and deserves all honour. Such is Brahmaṇaspati. Though he is not visible, serve and worship him with mantra which is Brahma itself in the form of 'word'. Cf. In Yaska's Nirukta 'Duvasyatih' means service. So also see Rgveda 5-42-11.
पञ्चमी ऋक् । ब्रह्मणस्पतेर्यदु कर्वमग्रियं सत्यधर्मन् विश्वस्मै सर्वातये ॥