________________
छन्दोदर्शनम
155
सप्तमी ऋक् । सरस्वती त्वं हृदयेन ब्रह्मणो यद् बभूव प्रहृष्टं हृदयं तव ॥ तेन मे हृदयं योजयात्मनोऽन्त
गि विदा परमा पुरुषस्य माता ॥ ७ ॥ पदपाठ :- सरस्वती । त्वम् । हृदयेन । ब्रह्मणः।
यत् । बभूव । प्रऽहृष्टम् । हृदयम् । तव ॥ तेन । मे । हृदयम् । योजय । आत्मनः । अन्तरिति । वाक् । विदा। परमा । पुरुषस्य । माता ।।
Oh Sarasvati ! being one with Brahma, your heart is full of the joy of Brahma. Make my inner heart full of that joy of yours. Våk is the measure and the mother of the supreme Purusha in virtue of intelligence.
अन्वयभाष्यम् । हे भगवति ! त्वं स्वयं सरस्वती रसात्मैव असि, तथा ब्रह्मणः परमात्मनः हृदयेन तेन सह योगेन तव हृदयं यत् प्रहृष्टं बभूव, तेनैव परमात्मरसप्रहृष्टेन तव हृदयेन आत्मनः तव अन्तः चेतने ममापि हृदयं योजय तेन प्रहर्षयेति भावः, यतः सा त्वं वागेव पुरुषस्य परमा श्रेष्ठतमा माता असि इति ||
COMMENTARY--SUMMARY TRANSLATION Oh Venerable Sarasvati, you are tbe very essence of all joy. You are one with the Supreme Self. Your heart is delighted by being one with Bramha. Make my heart one with yours and make it enjoy what you yourself enjoy.
अष्टमी ऋक् । सरस्वती त्वं रसैन स्वेन विदा ब्रह्मणाऽऽत्मनो मां कृधि प्रवेत्तारम् ॥ ब्रह्मविदं मां कृधि सन्दृशमृषि वाग् विदा परमा पुरुषस्य माता ॥ ८ ॥