________________
छन्दोदर्शनम्
अन्वयभाष्यम् |
हे भगवति ! त्वं सरस्वती स्वयं ज्ञानादिरसात्मिका सती वेत्तारं प्रज्ञातारं स्वं निर्जं आत्मानं प्रचेतनस्वरूपं, तथा आत्मना तेन स्वेन च प्रचितं सर्वेन्द्रियद्वारा सङ्गृहीतं स्वं स्वीयं समं समानभावसिद्धं परमं च सर्वं प्रज्ञानं जिह्वया सरसया वाचा रसेन वाग्रसेन दिव्येन स्वेन अनुभावादिरूपेण अनु वक्षि वाचैव अनुवदसि, तस्मात् सा वागेव विदा संविध शक्त्या सर्वज्ञानादिप्रकाशने तथा स्वानुभूतवस्तूपदेशादिषु रसनायाः मिथुनं मिथुनीभूतम, पूर्व्यं सर्वेभ्योऽपि प्राचीनं तत् वाचः रसनया मिथुनत्वम्, एतेन वाग्- रसनयोः आध्यात्मकं संवित्त्वपूर्ण विशिष्टं मिथुनत्वं स्वतः सिद्धं प्रतीयते इति ॥
147
COMMENTARY-SUMMARY TRANSLATION
Oh Venerable one, you are Sarasvati, the deity of knowledge. So, you express in sweet words the Atman, the knower as well as whatever is gathered by yourself as knowledge and experience through all the senses. Therefore, it is certainly Vak, who is intimately associated with the tongue in respect of gathering all knowledge and in communicating the same to others. The union of Vāk and the tongue is the oldest. This establishes the self-evident union of Vak and the tongue which is spiritual.
नवमी ऋक् ।
सरस्वती त्वं प्राणैरुत धीभिश्च
समं॒ वस॑न्तो॒ न संसृ॑ष्टा॒ तैर्विश्वैः ॥
ब्रह्म॑णा॒ स्वेन॑ स॒ता संहि॑ता॒ऽऽत्मन वाक् प॑रमा ज्योति॒र्विश्व॑स्य द॒शय॑त् ॥ ९ ॥
पदपाठ :- सरस्वती । त्वम् । प्राणैः । उत । धीभिः । च । सम॑म् । वस॑न्ती । न । सम्ऽसृष्टा । तैः । विश्वैः ॥ ब्रह्म॑णा । स्वेन॑ । स॒ता । सम्ऽहि॑ता । आत्मना॑ । वाक् । प॒र॒मा । ज्योति॑ः । विश्व॑स्य । द॒शय॑त् ॥
Oh Sarasvati ! you dwell with the vital airs ( pranas ) and all the intellectual faculties but you are never touched or affected by any of them. You are one with Brahma who is your own Self and the real truth. Indeed Våk is the supreme light that illumines everything in the universe.