________________
छन्दोदर्शनम् अन्वयभाष्यम् ।
66
हे भगवति ! त्वं सरस्वती ज्ञानचेतनादिसर्वरसपूर्णा सती आन्तर्यैः बाह्येव सर्वैः प्राणैः प्राणसत्त्वैः धीभिः ज्ञानादिशक्तिभिः धीन्द्रियैश्च समं साकं संवसन्ती नित्यसिद्धाऽपि `तैः विश्वैः करणैः वस्तुविषयादिभिः तद् ग्राहकैः इन्द्रियैश्च नैव संसृष्टा न तावन्मात्रया परिक्लृप्ता असि, अपि तु स्वेन आत्मीयेन ब्रह्मणा पूर्णेन वस्तुना सता सत्येन आत्मना परमेण संसृष्टा तत्सामरस्ययोगेन पूर्णा सर्वेभ्यः परा अतिरिक्ता अन्वयेन व्यतिरेकेण च ब्रह्मात्मना समाना सा परा वाक् सदैव भवतीति भावः ॥ अस्मिन् अर्थ मन्त्रवर्ण एव प्रत्यक्षं स्वतः सिद्धं प्रमाणम् । यावद् ब्रह्म विष्ठितं तावती वाक् ” इति (ऋ. मं. १०-११४-८ ) ॥ तदुपव्याख्यानरूपं ऐतरेयाणां आरण्यकं ब्राह्मणवचनं च भवति, “यत्र क्व च ब्रह्म तद् वाक्, यत्र वा वाक् तद् वा ब्रह्मेत्येतदुक्तं भवति ” इति (ऐ. आ. १-३-८), " अष्टमीं नानुषजति० तस्माद् वाक् सह प्राणैः समायतना सती अननुषक्ताऽसदिति" इति च वाचः सर्वभ्यः प्राणेभ्यः अतिरिक्तत्वं अनुश्रूयते || एतस्मिन्नेवाथ औपनिषदं मन्त्रब्राह्मणानुवचनम् - " तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदाना" इति औपनिषदः श्लोकः (बृ. उ. २-२-३), “प्राणा वा ऋषयः प्राणानेवैतदाह । वागष्टमी ब्रह्मणा संविदानेति वाग्वि - अष्टमी ब्रह्मणा संवित्ते " इति च तदुपव्याख्यानम् (बृ. उ. २- २ - ३ ) || अत्र ब्रह्मात्मना संहिता वागेव सम्यग्ज्ञानसत्त्वेत्यर्थः सम्पद्यते, तथा सा च सप्तप्राणेभ्यः परा आन्तरतमा वागेव अष्टमी इति च प्रतिज्ञायते, तस्मात् सा परा वागेव विश्वस्य जगतः दर्शयत् प्रकाशकं ज्योतिः, तत्परञ्जोतिः स्वरूपैव सा परा वांग् भवतीति ॥
॥ इति द्वितीयेऽनुवा एकादशतमं सरस्वतीसूक्तम् समाप्तम् ॥
148
COMMENTARY-SUMMARY TRANSLATION
Oh Venerable one, you are Sarasvati. You are full of the essence of all knowledge as well as of the principle of vitality. As such, you are externally connected with the vital airs (prāņas) within and without, and with all the powers of knowledge. But you are not in the least affected by those things. Neither the things in the universe which are the objects of our senses nor the knowledge conveyed by the senses affects you who are the supreme instrument of all knowledge. You are always with Brahma, who is full and perfect in every way, and who is ever existent. You are quite identical with Him and are superior to and beyond all other things. "Vāk is co-extensive with Brahma” ( Rg. X-118 – 4). This is further borne out by Aitareya Aranyaka almost in the form of an elaboration of what is said above," Wherever there is Brahma there is Våk and wherever there is Vāk there is Brahma" (Ai. Ār. 1-3-8). Vak dwells with Präna and the senses, but it is quite unaffected by