________________
146
छन्दोदर्शनम
अन्वयभाष्यम्। हे भगवति ! त्वं सरस्वती ज्ञानरूपा सती कर्मभिः सर्वः युक्ता विश्वकर्मा सर्वकर्मसमर्था भवसि, तथा विश्वैः सर्वैः कर्मन्द्रियरूपैः प्राणैः सर्वेन्द्रियाधिष्ठानभूतैः मुख्यप्राणसत्त्वैः सह पर्येषि परितः सर्वतः व्याप्नोषि, अतः तैः सर्वेन्द्रियैः कृतं सर्वं कर्मजातं चेतसा मनसा सचेतनेन सह वाङ्मुखेनैव अनुवदसि, तस्मात् विदा झानशक्तियोगात् सा वागेव सर्वकर्मकरणविषये तत्कर्मोच्चारणविषये च प्राणस्य अध्यात्मकं प्राचीनं मिथुनम् , एतेन सर्वैः कर्मन्द्रियैः तन्मूलभूतेन प्राणेन वाच: पूर्णं सर्वतः प्रथमं मिथुनत्वं स्वतः सिद्धम् ॥ अर्थाता वक्-पाणि-पाद-पायु-उपस्थरूपेषु कर्मेन्द्रियेषु पञ्चसु वाच एव प्राथम्यमस्तीति ॥
COMMENTARY-SUMMARY TRANSLATION
Oh Sarasvati ! the Venerable one, you are the very essence of knowledge; at the same time, you are capable of all works. Again you are one with all the senses and vital airs which make all actions possible. So, whatever is done by all the senses, you can express in words as you are simultaneously associated with the active mind. Therefore, in respect of doing all the works in the universe, Vak is one with the vital airs and senses which are instrumental in performing all actions. Vāk is of primary importance.
अष्टमी ऋक् । सरस्वती त्वं वेत्तारमात्मानं स्वमात्मना प्रचित स्वं प्रज्ञानं समम || सर्वमेवा वक्षि जिह्वया रसैन
वाग विदा मिथुनं रसनायाः पूर्व्यम् ॥ ८ ॥ पदपाठ :- सरस्वती । त्वम् । वेत्तारम् । आत्मानम् । स्वम् ।
आत्मना । प्रऽचितम् । स्वम् । प्रज्ञानम् । समम् ।। सर्वम् । एव । अनु । वक्षि । जिह्वया । रसैन । वाक् । विदा । मिथुनं । रसनायाः। पूय॑म् ।।
Oh Sarasvati ! you express in words with your sweet tongue, the knowledge of the Ātman who knows himself and you also express all the essential knowledge gathered by you. Vak, on account of intelligence, is the mate of the tongue from the beginning.