________________
छन्दोदर्शनम्
श्रुतमे॒वानु॑ वक्षि स॒त्यमु॒तामृ॑तं॒
वाग् वि॒दा मि॑थु॒नं श्रोत्र॑स्याध पूर्व्यम् ॥ १ ॥
इता |
पदपाठ :- सर॑स्वती । त्वम् । स्वरेऽवती । विऽऔमन् । पार । श्रोत्र॑म् । तेज॑सा । अनुऽएषि॑ । चेत॑सा । दि॒ङ्क्ऽभिः ॥ श्रु॒तम् । ए॒व । अनु॑ । व॒क्षि॒ि । स॒त्यम् । उ॒त । अनृ॑तम् । वाक् । विदा | मिथुनम् । श्रोत्रस्य । अधि । पूर्व्यम् ॥
139
Oh Sarasvati! you are endowed with the essence of subtle sound and have filled the whole sky. You enter the ear with the power of the mind and of the four quarters. Whatever is heard by the ear, you express in words, be it truth or untruth. Vak on account of intelligence is indeed the mate of the ear from the beginning.
अन्वयभाष्यम् ।
भगवति ! त्वं सरस्वती रसवती ज्ञान-प्राणादिमूलभूतसञ्जीवनीय सर्वरसपूर्णा स्वरवती स्वरसहिता च ज्ञानादिरसोद्गार सत्त्वयुक्ता च सती व्योमन् व्योमनि परीता व्याप्ता शब्दतन्मात्रात्मिका, चेतसा मनसा सह सचेतनेन तेजसा च दिग्भिः दिक्सम्बन्धिनीभिः दिग्देवताभिः सशक्तिभिः सह श्रोत्रं अन्तरिन्द्रियं आकाशात्मकं दिग्रपं स्वीयं बाह्यं भौवनं भौतिकं च स्थानं शब्दतन्मात्रास्पदीभूतं पदं अन्वेषि प्राप्नोषि श्रोत्रेण दिगात्मकेन सङ्गच्छसे इति भाव:, अतः तेन श्रोत्रेन्द्रियेण श्रुतं सत्यं यथार्थं अनृतं अयथार्थं च सर्वमपि अनुवक्षि वाचैव अनुवदसि, तस्मात् सा वागेव श्रवणकर्मणि श्रोत्रेण सह मिथुनं युगलीभूतम्, विदा ज्ञानशक्त्या योगात्, तथा अधि सर्वार्थाधिष्ठानरूपं तद्वागर्थयोर्विज्ञाने मूलभूतं पदम् पूर्व्यं प्रथमं सर्वविषयेभ्यः प्राचीनम्, अनेन वाक्छ्रोत्रयोः मिथुनत्वं प्रतिपाद्यते सामर्थ्यात् स्वतः सिद्धम् ॥ अत्र श्रोत्रेन्द्रियं आकाशात्मकमिति न्यायविदां भौतिकदृशां अर्वाचीनानां च मतम्, दिगात्मकमेव श्रोत्रं इति वैदिकं औपनिषदं च तत्त्वम् ॥ " कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद् दिशः " इति ( ऐ. उ. १-४ ) औपनिषदं ब्राह्मणवचनम् || 'दिश: श्रोत्रातू ” (ऋ. मं. १०-९०-१४ ) इति ऋमन्त्रवर्णः ॥ तथा दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्” इति च ब्राह्मणम्
,
((
(C
( ऐ. उ. २-४ ) ॥
COMMENTARY-SUMMARY TRANSLATION
Oh Venerable one, you are Sarasvati full of the essence of knowledge, of life and of everything. You being the essence of sound, have filled the sky. With the help of the active mind and the powers of the gods presiding over the quarters, you enter the earth which partakes of the essence of the sky