________________
138
छन्दोदर्शनम
अन्वयभाष्यम्। हे भगवति ! त्वं सरस्वती नाम्ना स्वरूपेण च सिद्धा ज्ञान-वाग्रसादिना पूर्णा आत्मन् आत्मनि केवले चेतनस्वरूपे परमपुरुषे मिथुनं मिथुनीभूता दम्पतीसत्त्वा सती विश्वैः करणैः बुध्यादिभिः सर्वन्द्रियैः विश्वथा सर्वप्रकारेण चिता चेतनया अन्त: सर्वेषामपि प्राणभृतां अन्तःशरीरे अधि अध्यात्मसत्त्वोदिते-अयं चेतनः सर्वान्तरात्मा यावान् यावता परिमाणेन निजैः गुण-क्रियादिभिः चितः सञ्चित: व्याप्तः प्रतितिष्ठति, तावती तावत्यैव मर्यादया सा इयं वागपि परीता तत्समाना सती अध्यास्ते, तस्मात् सा पग वागेव तेन परमेण आत्मना मिथुनीभूता सती विश्वस्यापि जगतः दर्शयत् प्रकाशकं ज्योतिः, तत्परञ्ज्योतिःस्वरूपैव सा परा वाग् भवतीति ||
॥ इति द्वितीयेऽनुवाके दशमं सरस्वतीसूक्तम् समाप्तम् ।।
COMMENTARY-SUMMARY TRANSLATION Oh revered Sarasvati ! by your name as well as form, you are coupled with Atman. As such, with all the senses, intellect etc. you pervade the bodies of all living beings. You pervade everything as extensively as the active Atman. Våk is equal to the Atman in every respect; she is as pervasive as He. Therefore, it is certainly Vak, coupled with the Atman, which is the light par excellence that illumins the whole universe.
Thus ends the Tenth hymn in the second Section.
अथ द्वितीयेऽनुवाके एकादशं सरस्वतीसूक्तम् |
अनुवाकः २ । सूक्तम् ११ । ऋचः १-९ । सरस्वती त्वं स्वरवती नव, देवरातो वैश्वामित्रः, सरस्वती, जगती ।
Now the Sarasvati Sukta eleventh in Second Anuvaka
Section II, Hymn 11, Riks 1-9-SARASVATI. This hymn beginning with “Sarasvati tvam Svaravati" contains nine Rks. Daivarāta Vaišvamitra is the Rshi, Sarasvati is the goddess and the metre is Jagati.
अथ प्रथमा ऋक् ॥ सरस्वती त्वं स्वरवती व्योमन् परीता श्रोत्रं तेजाज्वेषि चेतसा दिग्भिः ॥